________________
कर्मप्रकृतिः ॥१५०॥
पणा.
exa D
वमनुकृष्टिः प्रारब्धा तत्प्रभृतीनां कण्डकमात्राणां स्थितीनां यथोत्तरमुत्कृष्टोऽनुभागोऽनन्तगुणो वक्तव्यः। ततो यतः स्थितिस्थानाज्जघन्यमनुभागमुक्त्वा पश्चाद्वलितं तत उपरितने स्थितिस्थाने जघन्यानुभागोऽनन्तगुणो वक्तव्यः। एवमेकै जघन्यानुभागमुत्कृष्टानुभागानां
अनुभागच कण्डकं कण्डकं तावद्वदेद्यावजघन्यानुभागविषयाणां तानि चान्यानि चेत्येवमनुकृष्टेः परं कण्डकं परिपूर्ण भवति, उत्कृष्टाश्चानुभागाः
बन्धप्ररू| सागरोपमशतपृथक्त्वतुल्या भवन्ति । सागरोपमशतपृथक्त्वं ह्यसत्कल्पनया लक्षं, कण्डकानि सहस्रतुल्यानि, तदेकभागः शतं, तदेकैक
व्यक्त्यन्तरितानि च सहस्राणि लक्षं भवतीति । तत उपरि जघन्यानुभागोऽनन्तगुणः । पश्चादेक उत्कृष्टोऽनुभागोऽनन्तगुणः। ततः पुन| रप्पेको जघन्योऽनुभागोऽनन्तगुणः। ततः पुनरप्येक उत्कृष्टोऽनुभागोऽनन्तगुणः। एवं कण्डके कण्डके एकैकमुपर्यधो जघन्यमुत्कृष्टं चानन्तगुणमनुभागं तावद्वदेद्यावजघन्यानुभागविषयाः स्थितयः परिपूर्यन्ते । उत्कृष्टानुभागविषयाश्च कण्डकमात्रा अनुक्तास्तिष्ठन्ति, तासां यथोत्तरमुत्कृष्टोऽनुभागोऽनन्तगुणो वाच्यः। तथा चाह-'जा तकंडोवरि समत्ती-यावत्तेषां जघन्यानुभागानां कण्डकस्य चोपरितनस्य समाप्तिः। इदमुक्तं भवति-असंख्येयेषु भागेषु यथोत्तरमनन्तगुणतयैकस्मिश्चान्त्ये भागे उत्कृष्टानुभागकण्डकान्तरितत्वेनानन्तगुणतया परिसमापिताजघन्यानुभागस्थितिकण्डकादुपरि एककोत्कृष्टानुभागान्तरिता जघन्यानुभागास्तावद्वाच्या यावत्तेषां सर्वेषां समाप्तिभवति । ततो ये उत्कृष्टानुभागाः केवलास्तिष्ठन्ति तेऽपि यथोत्तरमनन्तगुणास्तावद्वाच्या यावत्सर्वसमाप्तिर्भवतीति गाथार्थः । __ तत्र सातासाते अधिकृत्य भावना क्रियते-सातस्योत्कृष्टायां स्थितौ जघन्यानुभागः सर्वस्तोकः । ततः समयोनायामुत्कृष्टस्थितौ | | जघन्यानुभागस्तावन्मात्र एव । द्विसमयोनायामप्यसौ तावन्मात्र एव । एवमधोऽधोऽवतीर्य तावन्मात्र एव जघन्यानुभागस्तावद्वाच्यो या
॥१५०॥ वत्प्रतिपक्षाक्रान्ताः सागरोपमशतपृथक्त्वप्रमाणाः स्थितयो गता भवन्ति । ततोऽधस्तनाधस्तनस्थितिषु जघन्यानुभागाः क्रमेणानन्तगु-19
SHGŠSTAS