SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ व्यः। ततो यतः स्थितिस्थानाजघन्यानुभागमभिधाय निवृत्तस्ततोऽधस्तने स्थितिस्थाने जघन्योऽनुभागोऽनन्तगुणः । ततः पुनरपि प्रागुक्ताहै कण्डकादधः कण्डकमात्राणां स्थितीनामधोऽधः क्रमेणोत्कृष्टा अनुभागा अनन्तगुणा वक्तव्याः। एवमेकस्याः स्थितेजघन्यमनुभागं क-12 Vण्डकमात्राणां स्थितीनामुत्कृष्टाननुभागान् वदता तावद्गन्तव्यं यावदभव्यप्रायोग्यजघन्यानुभागबन्धविषये जघन्या स्थितिः। ततो यतः) स्थितिस्थानाजधन्यानुभागमुक्त्वा निवृत्तस्ततोऽधस्तने स्थितिस्थाने जघन्योऽनुभागोऽनन्तगुणः । ततोऽभव्यप्रायोग्यजघन्यानुभागबन्ध विषयादधः प्रथमस्थितौ उत्कृष्टोऽनुभागोऽनन्तगुणः ततः प्रागुक्ताजघन्यानुभागादधः स्थितौ जघन्योऽनुभागोऽनन्तगुणः । ततोऽप्यभव्यप्रायोग्यजघन्यानुभागबन्धविषयादधो द्वितीयस्थितावुत्कृष्टोऽनुभागोऽनन्तगुणः । एवमेकस्याः स्थितेजघन्यमनुभागमेकस्याश्च स्थितेरुत्कृष्टं वदताऽधोऽधस्तावदवतरीतव्यं यावजघन्या स्थितिः । कण्डकमात्राणां च स्थितीनामुत्कृष्टा अनुभागा अद्याप्यनुक्ताः सन्ति, | शेषाः सर्वेप्युक्ताः । ततस्तेऽप्यधोऽधः क्रमेणानन्तगुणास्तावद्वक्तव्या यावजघन्या स्थितिः । एवं बादरपर्याप्तप्रत्येकनाम्नामपि तीव्रमछन्दताऽभिधातव्या । विशेषतस्त्वनुकृष्टिस्तीत्रमन्दता च पटस्थापनातोऽवसेया । साधनादिप्ररूपणा, स्वामित्वं, घातिसंज्ञा, स्थानसंज्ञा, | शुभाशुभप्ररूपणा, प्रत्ययप्ररूपणा, विपाकग्ररूपणा च यथा शतके तथाऽवगन्तव्या इति ॥ ६७॥ (उ०)-तमेवाह-यावतीनां तानि चान्यानि चेत्येवमनुकृष्टिरभिहिता तावतीनां सर्वासामपि जघन्योऽनुभागस्तावन्मात्र एव द्रष्टव्यः। तानि चान्यानि चेत्येवमनुकृष्टेः परं कण्डकस्यासंख्येयेभ्यो भागेभ्य ऊर्ध्व कण्डकमात्राणामेकैकस्याश्च स्थितेर्यथासंख्यमुत्कृष्टा इतरे च जघन्या अनुभागा अनन्तगुणा ज्ञेयाः। इदमुक्तं भवति-तानि चान्यानि चेत्येवमनुकृष्टेः परं जघन्योऽनुभागो यथोत्तरं तावदनन्तगुणो वाच्यो यावत्कण्डकमात्राणां स्थितीनामसंख्येया भागा गच्छन्ति, एको भागस्तिष्ठति । ततो यतः स्थितिस्थानादारभ्य तानि चान्यानि चेत्ये
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy