SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥१४९॥ सम्प्रति त्रसनाम्नोऽभिधीयते-त्रसनाम्न उत्कृष्टस्थितौ जघन्यपदे जघन्योऽनुभागः सर्वस्तोकः। ततः समयोनायामुत्कृष्टस्थितौ जघन्योऽनुभागोऽनन्तगुणः। ततोऽपि द्विसमयोनायामुत्कृष्टस्थितौ जघन्योऽनुभागोऽनन्तगुणः । एवमधोऽधोऽवतरणेन जघन्योऽनुभागोऽनन्त- अनुभाग बन्धप्ररूगुणतया तावद्वक्तव्यो यावत्कण्डकमात्राः स्थितयोऽतिक्रान्ता भवन्ति । तत उत्कृष्टायां स्थितौ उत्कृष्टोऽनुभागोऽनन्तगुणः । ततः क पणा. ण्डकादधः प्रथमस्थितौ जघन्योऽनुभागोऽनन्तगुणः । समयोनायामुत्कृष्टस्थितौ उत्कृष्टोऽनुभागोऽनन्तगुणः। ततः कण्डकादधस्तन्यां | द्वितीयस्यां स्थितौ जघन्योऽनुभागोऽनन्तगुणः । ततो द्विसमयोनायामुत्कृष्टस्थितौ उत्कृष्टोऽनुभागोऽनन्तगुणः । एवं तावद्वाच्यं यावद| ष्टादशसागरोषमकोटीकोटीनामुपरितनी स्थितिः । अष्टादशकोटीकोटीनां चोपरि कण्डकमात्राणां स्थितीनामुत्कृष्टानुभागा अद्याप्यनु|क्ताः सन्ति, शेषं सर्वमुक्तम् । ततोऽष्टादशकोटीकोटीनां सत्कायामुत्कृष्टस्थितौ जघन्योऽनुभागोऽनन्तगुणः। ततः समयोनायामुत्कृष्ट| स्थितौ जघन्योऽनुभागस्तावन्मात्र एव । द्विसमयोनायामप्युत्कृष्टस्थितौ जघन्योऽनुभागस्तावन्मात्र एव । एवमधोधोऽवतरणेन तावद्वा च्यं यावदभव्यप्रायोग्यो जघन्यस्थितिबन्धः। ततोऽधस्तन्यां प्रथमस्थितौ जघन्योऽनुभागोऽनन्तगुणः। ततो द्वितीयस्यां स्थितौ जघन्यो|ऽनुभागोऽनन्तगुणः । एवं तावद्वाच्यं यावत्कण्डकस्यासंख्येया भागा गता भवन्ति, एकोऽवतिष्ठते । ततोऽष्टादशसागरोपमकोटीकोटीना| मुपरिष्टात कण्डकमात्राणां स्थितीनां चरमस्थितौ उत्कृष्टोऽनुभागोऽन्नतगुणः। ततो द्विचरमस्थितावुत्कृष्टोऽनुभागोऽनन्तगुणः । ततस्त्रि- | चरमस्थितावुत्कृष्टोनुभागोऽनन्तगुणः । एवमधोऽधोऽवतरणेन तावद्वाच्यं यावत्कण्डकमतिक्रान्तं भवति, अष्टादशकोटीकोटीनामुपरि अनन्तरा स्थितिरतिक्रान्ता भवतीत्यर्थः। ततो यतः स्थितिस्थानाजघन्यमनुभागमभिधाय निवृत्तस्ततोऽधस्तने स्थितिस्थाने जघन्योऽनुभागोऽन-13॥१४९॥ न्तगुणः । ततः पुनरप्यष्टादशसागरोपमकोटीकोटीनां सत्कायाश्चरमस्थितेरारभ्याधोऽधः कण्डकमात्राणां स्थितीनामुत्कृष्टोऽनुभागो वक्त-II (CACRACCRHOICEG523
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy