________________
ഇ. SSSSS
| द्वाच्यं यावन्निवर्तनकण्डकस्य असंख्येया भागा गता भवन्ति, एकोऽवतिष्ठते । ततो यतः स्थितिस्थानादुत्कृष्टमनुभागमुक्त्वा निवृत्त|स्त उपरितने स्थितिस्थाने उत्कृष्टोऽनुभागोऽनन्तगुणः। ततोऽप्युपरितने द्वितीये स्थितिस्थाने उत्कृष्टोऽनुभागोऽनन्तगुणः। ततोऽपि तृ
तीये स्थितिस्थाने उत्कृष्टोऽनुभागोऽनन्तगुणः । एवं तावद्वाच्यं यावदभव्यप्रायोग्यजघन्यानुभागबन्धस्याधश्वरमा स्थितिः । ततो यतः | स्थितिस्थानाजघन्यमनुभागमुक्त्वा निवृत्तस्तत उपरितने स्थितिस्थाने जघन्योऽनुभागोऽनन्तगुणः । ततोऽभव्यप्रायोग्यजघन्यानुभाग-1 | बन्धविषये प्रथमस्थितावुत्कृष्टोऽनुभागोऽनन्तगुणः। ततोऽपि द्वितीयस्यां स्थितावुत्कृष्टोऽनुभागोऽनन्तगुणः। एवं तावद्वाच्यं यावत् क| ण्डकमात्राः स्थितयोऽतिक्रान्ता भवन्ति । ततो यतः स्थितिस्थानाजघन्यमनुभागमुक्त्वा निवृत्तस्तत उपरितने स्थितिस्थाने जघन्योऽ|नुभागोऽनन्तगुणः। ततोऽप्यभव्यप्रायोग्यजघन्यानुभागबन्धविषये कण्डकादुपरि पुनरपि कण्डकमात्राणां स्थितीनामुत्कृष्टोऽनुभागो
यथोत्तरमनन्तगुणो वक्तव्यः । एवमेकस्याः स्थितेजघन्यमनुभागं कण्डकमात्राणां च स्थितीनामुत्कृष्टमनुभागं वदता तावद्गन्तव्यं | यावदभव्यप्रायोग्यजघन्यानुभागबन्धविषये चरमस्थितिः। ततो यतः स्थितिस्थानाजघन्यमनुभागमुक्त्वा निवृत्तस्तत उपरितने जघन्योऽनुभागोऽनन्तगुणः । ततोऽभव्यप्रायोग्यजघन्यानुभागवन्धस्योपरि प्रथमस्थितावुत्कृष्टोऽनुभागोऽनन्तगुणः । तत उपरि प्रागुक्ताजघन्यानुभागबन्धादुपरि द्वितीयस्थितौ जघन्योऽनुभागोऽनन्तगुणः। ततः प्रागुक्तादुत्कृष्टानुभागादुपरितने स्थितिस्थाने उत्कृष्टोऽनुभागोऽनन्तगुणः । एवमेकस्याः स्थितेजघन्यमेकस्याश्चोत्कृष्टमनुभागं वदता तावद् गन्तव्यं यावदुत्कृष्टस्थितौ जघन्योऽनुभागोऽनन्तगुणः। कण्डकमात्राणां च स्थितीनामुत्कृष्टानुभागा अद्याप्यनुक्ताः सन्ति, शेषाश्च सर्वेऽप्युक्ताः । ततस्ते यथोत्तरमनन्तगुणास्तावद्वक्तव्या यावदुत्कृष्टा स्थितिः । एवं तिर्यगानुपूर्व्या नीचैर्गोत्रस्य च तीव्रमन्दताऽभिधातव्या ।
SEARNAKCERICANSIC