________________
CARROR
ऽष्टादशसागरकोटाकोटीसम्बन्धिन्यामुत्कृष्टस्थितौ जघन्यानुभागोऽनन्तगुणः। समयोनायामुत्कृष्टस्थितौ तावानेव, द्विसमयोनायामपि तावानेव । एवमधोऽधोऽवतीर्य तावन्मात्रोऽनुभागस्तावद्वाच्यो यावदभव्यप्रायोग्यो जघन्यः। ततोऽधस्तन्यां प्रथमस्थितौ जघन्यानुभागोऽ नन्तगुणः, ततो द्वितीयस्यां स्थितौ जघन्यानुभागोऽनन्तगुणः, एवं तावद्वाच्यं यावत्कण्डकस्यासंख्येया भागा गता भवन्ति । ततोऽ टादशसागरोपमकोटाकोटीनामुपरिष्टात्कण्डकमात्राः स्थितयो याः कथनावशिष्टोत्कृष्टानुभागास्तासां चरमस्थितावुत्कृष्टोऽनुभागोऽनन्तगुणः । ततस्तद्विचरमस्थितावुत्कृष्टोऽनुभागोऽनन्तगुणः, ततखिचरमस्थितावुत्कृष्टोऽनुभागोऽनन्तगुणः, एवमधोऽवोवतीय तावद्वाच्यं यावत्कण्डकमतिक्रान्तं भवति । ततो यत स्थितिस्थानाजघन्यमनुभागमुक्त्वा निवृत्तिः कृता ततोऽधस्तने स्थितिस्थाने जघन्यानुभागोऽनन्तगुणः । ततोऽष्टादशसागरकोटाकोटीनां सम्बन्धिन्याश्चरमस्थितेरारभ्याधोऽधः कण्डकमात्रागां स्थितीनामुत्कृष्टोऽनुभागः क्रमेगानन्तगुणो वाच्यः । ततः प्रागुक्तजघन्यानुभागादधस्तने स्थितिस्थाने जघन्यानुभागोऽनन्तगुणः । ततः प्रागुक्तकण्डकादधः कण्डकमात्राणां स्थितीनामधोऽधः क्रमेणोत्कृष्टानुभागा अनन्तगुणा वाच्याः । एवमेकस्या जघन्यानुभागं कण्डकमात्राणां च स्थितीनां उत्कृ. एमनुभागमनन्तगुणं वदस्तावद्वजेद्यावदभव्यप्रायोग्यजघन्यानुभागबन्धविषये जघन्यस्थितिः। ततो यतः स्थितिस्थानाजघन्यमनुभागमुक्त्वा निवृत्तस्तदधस्तने स्थितिस्थाने जघन्यानुभागोऽनन्तगुणः । ततोऽभव्यप्रायोग्यजघन्यानुभागबन्धविषयजघन्यस्थितेरधः प्रथमस्थिताबुत्कृष्टोऽनुभागोऽनन्तगुणः। एवमेकैकस्थितेजघन्यानुभागमेकैकस्याश्चोत्कृष्टानुभागमनन्तगुणमधोऽधो वदस्तावदवतरेद्यावजघन्या १ स्थितिः। कण्डकमात्राणां च स्थितीनामुत्कुष्टानुभागाः कथनावशिष्टा अधोऽधः क्रमेणानन्तगुणा द्रष्टव्याः । एवं बादरपर्याप्तप्रत्येकना
नामपि तीव्रमन्दताऽभिधेया। तदेवमुक्ता तीव्रमन्दता ।।
ROMANCES
GOOD