________________
ततो यतः स्थितेरारभ्य तानि चान्यानि चेत्येवमनुकृष्टिरारब्धा तत्प्रभृतीनां स्थितीनां कण्डकमात्राणां यथोत्तरमनन्तगुणतयोत्कृष्टो-1351 ऽनुभागो वक्तव्यः । ततो यतः स्थितिस्थानाजघन्यानुभागमुक्त्वा निवृत्तस्तत उपरितने स्थितिस्थाने जघन्योऽनुभागोऽनन्तगुणो वा-1 च्यः । एवमेकैकं जघन्यानुभागमुत्कृष्टानुभागानां च कण्डकं कण्डकं तावद्वदेव यावजघन्यानुभागविषयाणां स्थितीनां तानि चान्यानि चेत्येवमनुकृष्टेः परं कण्डकं परिपूर्ण भवति । उत्कृष्टाश्चानुभागाः सागरोपमशतपृथक्त्वतुल्या भवन्ति । तत उपरि जघन्योऽनुभागोऽनन्तगुणः । पश्चादेक उत्कृष्टोऽनुभागः, ततः पुनरप्येको जघन्योऽनुभागः, पुनरप्येक उत्कृष्टोऽनुभागः, एवं तावद्वाच्यं यावज्ज घन्यानु| भागविषयाः स्थितयः सर्वा अपि परिसमाप्ता भवन्ति । उत्कृष्टानुभागविषयाश्च कण्डकमात्राः स्थितयोऽद्याप्य नुक्तास्तिष्ठन्ति शेषाः सर्वा अप्युक्ताः । ततस्तासां यथोत्तरमुत्कृष्टोऽनुभागोऽनन्तगुणो वाच्यः । तथा चाह-'जा तकंडोवरि समत्ती'-यावतेषां जघन्यानुभा| गानां कण्डकस्य चोपरितनस्य परिसमाप्तिः । इदमुक्तं भवति-अनन्तगुणतयाऽभिहितानां जघन्यानुभागविषयाणां स्थितीनां कण्डकादपरि एकैकोत्कृष्टानुभागान्तरिता जघन्यानुभागास्तावद्वक्तव्या यावत्तेषां सर्वेषामपि परिसमाप्तिरुपजायते । ततो ये कण्डकमात्रा उत्कृष्टानुभागाः केवलास्तिष्ठन्ति तेऽपि यथोत्तरमनन्तगुणास्तावद्वाच्या यावत्सर्वसमाप्तिर्भवतीति गाथार्थः।
तत्र सातासाते अधिकृत्य भावना विधीयते सातस्योत्कृष्टायां स्थितौ जघन्योऽनुभागः सर्वस्तोकः । ततः समयोनायामुत्कृष्टस्थितौ ) | जघन्योऽनुभागस्तावन्मात्र एव । द्विसमयोनायामप्युत्कृष्टस्थितौ जघन्योऽनुभागस्तावन्मात्र एव । एवमधोऽधोऽवतीर्य तावद्वक्तव्यो यावत्सागरोपमशतपृथक्त्वमतिक्रान्तं भवति । ततोऽधस्तनस्थितौ जघन्योऽनुभागोऽनन्तगुणः। ततोऽप्यधस्तनस्थितौ जघन्योऽनुभागोऽनन्तगुणः। एवं तावद्वाच्यं यावत् कण्डकस्यासंख्येयभागा गता भवन्ति, एकोऽवशिष्यते । एताश्च स्थितयोऽसंख्येयभागहीनकण्डकमात्राः