________________
द
पणा.
न्तरायामुपरितनस्थितावुत्कृष्टोऽनुभागोऽनन्तगुणः। एवं निरन्तरमुत्कृष्टोऽनुभागोऽनन्तगुणतया तावद्वक्तव्यो यावदुत्कृष्टा स्थितिः। कर्मप्रकृतिः | तथा चाह-'चरमठिईणुकोसो'-चरमस्थितीनां कण्डकमात्राणां पल्योपमासंख्येयभागमात्राणामित्यर्थः उत्कृष्टोऽनुभागो निरन्तरमनन्त- | अनुभाग| गुणतया नेतव्यः । इदानीं शुभप्रकृतीनां तीव्रमन्दताभिधानावसरः। तत्र पराघातप्रकृतिमधिकृत्योच्यते-पराघातस्योत्कृष्टायां स्थितौ जघ-|
बन्धप्ररू॥१३८॥
न्यपदे जघन्योऽनुभागः सर्वस्तोकः । ततःसमयोनायामुत्कृष्टस्थितौ जघन्योऽनुभागोऽनन्तगुणः । ततोऽपि द्विसमयोनायामुत्कृष्टस्थितो जघन्योनुभागोऽनन्तगुणः । एवं तावद्वाच्यं यावत्पल्योपमासंख्येयभागमात्राः स्थितयो गता भवन्ति, निवर्तनकण्डकमतिक्रान्तं भ
वतीत्यर्थः । तत उत्कृष्टायां स्थितावुन्कृष्टोऽनुभागोऽनन्तगुणः। ततो निवर्तनकण्डकादधः प्रथमस्थितौ जघन्योऽनुभागोऽनन्तगुणः । 2 ततः समयोनायामुत्कृष्टस्थितावुत्कृष्टोऽनुभागोऽनन्तगुणः । ततो निवर्तनकण्डकादधो द्वितीयस्थितौ जघन्योऽनुभागोऽनन्तगुणः। एवं K| तावद्वाच्यं यावत्पराघातस्य जघन्यस्थितौ जघन्यानुभागोऽनन्तगुणः । कण्डकमात्राणां च स्थितीनामुत्कृष्टोऽनुभागोऽद्याप्यनुक्तस्तिष्ठ
ति, शेषः सर्वोऽप्युक्तः । ततो जघन्यस्थितेरारभ्योर्ध्व कण्डकमात्राः स्थितीरतिकम्य चरमायां स्थितावुत्कृष्टोऽनुभागोऽनन्तगुणो वक्तव्यः । ततोऽधस्तनस्थितावुत्कृष्टोऽनुभागोऽनन्तगुणः । एवं तावद्वाच्यं यावजघन्यस्थितावुत्कृष्टोऽनुभागोऽनन्तगुणः । एवं शरीरपञ्चकसंघातपञ्चकबन्धनपञ्चदशकाङ्गोपाङ्गत्रयप्रशस्तवर्णगन्धरसस्पर्शागुरुलघुच्छ्वासातपोद्योतनिर्माणतीर्थकराणामपि भावनीयम् । 'परितमाणीण उ विसेसो-परावर्तमानप्रकृतीनां विशेषो द्रष्टव्यः। स चैव-यावतीनां स्थितिनां तानि चान्यानि चेत्येवमनुकृष्टिरभिहिता ता-16 | वतीनां सर्वासामपि जघन्योऽनुभागस्तावन्मात्र एव द्रष्टव्यः। तानि चान्यानि चेत्येवमनुकृष्टिविषयाभ्यस्तु परतो जघन्यो अनुभागो | ॥१३८।। | यथोत्तरमनन्तगुणस्तावद्वक्तव्यो यावत् कण्डकस्यासंख्येया भागा गता भवन्ति, एकोऽवशिष्यते ॥ ६६ ॥
OCre