SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ (उ.)---ततो निवर्तनकण्डकचरमस्थितिजघन्यानुभागादधस्तनप्रथमस्थिताउत्कृष्टो नन्तगुणः । ततः कण्डकादुपरि प्रथमस्थितौ ज-IN | धन्यानुभागोऽनन्तगुणः । ततोऽधस्तनद्वितीयस्थितावुत्कृष्टोऽनुभागोऽनन्तगुणः । ततः कण्डकादुपरि द्वितीयस्थिती जघन्यानुभागोडनन्तगुणः। ततोऽधम्तनततीयस्थितावुत्कृष्टोऽनुभागोऽनन्तगुणः। ततः कण्डकादुपरि तृतीयस्थितौ जघन्यानुभागोऽनन्तगुणः। एवं कण्डके कण्डके एककः स्व एककः,म्वइति पदं प्रतिनियतकण्डकावधिमचं द्योतयति, यथाक्रम ज्येष्ठः-उत्कृष्ट इतरश्च जघन्योऽनुभागोऽनन्तगुणो वाच्यः । स च तावद्यावत्सवोत्कृष्टायां स्थितौ जघन्यानुभागोऽनन्तगुणः, कण्डकमात्राणां च स्थितीनामुन्कृष्टोऽनुभागोऽद्याप्यनुक्तस्तिष्ठति शेषस्तु सर्वोऽप्युक्त इति तमाह-'चरमट्टिईणुक्कोसो'। चरमस्थितीनां कण्डकमात्राणामुत्कृष्टोऽनुभागो निरन्तरमनन्तगुणतयाऽभिधातव्यः । तथाहि-सर्वोत्कृष्टायाः स्थित्तेजघन्यानुभागात्पल्योपमासंख्येयभागमात्राणां चरमस्थितीनां प्रथमस्थितावत्कृष्टोऽनुभागोऽनन्तगुणो वक्तव्यः । ततोऽप्युपरितन्यामनन्तरस्थितावुत्कृष्टोऽनुभागोऽनन्तगुणः। ततोऽप्यनन्तरायामुपरितनस्थितौ सोऽनन्तगुणः । एवं तावद्वाच्यं यावदुत्कुष्टा स्थितिरिति । पराघातादीनां पदचत्वारिंशत्संख्यानां शुभप्रकृतीनां तूत्कृष्टात् स्थितिस्थानादारभ्याधोमुखमुक्तदिशाऽनन्तगुणनया तीव्रमन्दता वाच्या। तथाहि-एतासामुत्कृष्टायां स्थितौ जघन्यानुभागः सर्वस्तोकः । ततः समयो-18 नायामुत्कृष्टस्थितौ जघन्योऽनुभागोऽनन्तगुणः । ततोऽपि द्विसमयोनायामुत्कृष्टस्थितौ जघन्योऽनुभागोऽनन्तगुणः । एवं तावदाच्यं यावन्निवर्तनकण्डकं भवति । तत उत्कृष्टायां स्थितावुत्कृष्टानुभागोऽनन्तगुणः । ततो निवर्तनकण्डकादधः प्रथमस्थितौ जघन्योऽनुभागोऽनन्तगुणः । ततः समयोनायामुत्कृष्टस्थितावुत्कृष्टोऽनुभागोऽनन्तगुणः । ततो निवर्तनकंडकादधो द्वितीयस्थितौ जघन्यानुभागोऽनन्तगुणः । एवं तावद्वाच्यं यावज्जघन्यस्थितौ जघन्यानुभागोऽनन्तगुणः । कण्डकमात्राणां च स्थितीनामुत्कृष्टोऽनुभागोऽद्याप्य
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy