SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ |ति । एवं तावद्वाच्यं यावदभव्यप्रायोग्यो जघन्यस्थितिबन्धः । 'उप्पि असायसमया उ आजेट्ठा'-तत उपरिष्टात्, अभव्यप्रायोग्यजघ-| न्यस्थितिबन्धादारभ्येत्यर्थः, असातेन समता-तुल्यता ज्ञातव्या, 'आ जेड'ति-यावज्येष्ठा-उत्कृष्टा स्थितिः। एतदुक्तं भवति-अभव्यप्रायोग्यां जघन्यां स्थिति बनतो यानि अनुभागबन्धाध्यवसायस्थानानि तानि तत उपरितनस्थितौ सर्वाणि भवन्ति, अन्यानि च। तस्यामपि यानि अनुभागवन्धाध्यवसायस्थानानि तानि उपरितनस्थितौ सर्वाणि भवन्ति, अन्यानि च । एवं तावद्वाच्यं यावत्सागरोपम-| शतपृथक्त्वम् । एताश्च प्रायोऽभव्यप्रायोग्यजघन्यानुभागबन्धविषयाः स्थितयः । एता हि मनुष्यगतिरूपया प्रतिपक्षप्रकृत्या सह परावृत्य परावृत्य बध्यन्ते, परावृत्य बन्धे च प्रायः परिणामो मन्द उपजायते, तत एता जघन्यानुभागबन्धविषयाः। एतासां चरमस्थिती यान्यनुभागबन्धाध्यवसायस्थानानि तेषामसंख्येयं भागं मुक्त्वा शेषाणि सर्वाण्यपि तदुपरितनस्थितिबन्धारम्भेऽनुवर्तन्ते, अन्यानि च भवन्ति । तत्रापि यानि अनुभागबन्धाध्यवसायस्थानानि तेषामसंख्येयतमं भागं मुक्त्वा शेषाणि सर्वाण्यपि तत उपरितनस्थितिबन्धारम्भेऽनुवर्तन्ते, अन्यानि च भवन्ति । एवं तावद्वाच्यं यावत्पल्योपमासंख्येयभागमात्राः स्थितयो गता भवन्ति । अत्र जघन्यानुभागवन्धविषयचरमस्थितिसत्कानुभागबन्धाध्यवसायस्थानानामनुकृष्टिः परिसमाप्ता । तत उपरितने स्थितिबन्धे जघन्यानुभागबन्धविषय| चरमस्थित्यनन्तरस्थितिसत्कानुभागबन्धाध्यवसायस्थानानामनुकृष्टिः परिसमाप्तिं याति । एवं तावद्वाच्यं यावदुत्कृष्टा स्थितिः । 'एमा पट तिरियगतिदुगे नीयागोए य अणुकड्डी'-एषाऽनन्तरोक्ताऽनुकृष्टिः तिर्यग्गतिद्विके-तिर्यग्गतितिर्यगानुपूर्वीलक्षणे नीचैर्गोत्रे च द्रष्टव्या । तत्र यथा तिर्यग्गतौ भाविता तथा तिर्यगानुपूर्त्यां नीचैगोत्रे च स्वयमेव भावनीयेति ॥ ६२-६३ ॥ ___ (उ०)-तदेवं चतुर्णामपि वर्गाणामनुकृष्टिरभिहिता,अथ तिर्यग्द्विकनीचेगोत्राणामनुकृष्टिमभिधित्सुराह-सप्तमक्षितौ वर्तमानस्य ना
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy