________________
अनुभागबन्धप्ररूपणा.
रकस्य 'से काले'-अनन्तरसमये सम्यक्त्वं प्रतिपद्यमानस्य यो हस्वो-जघन्यः स्थितिबन्धः इत ऊर्ध्व स्थितिबन्धोऽनुकृष्टिमधिकृत्यावकर्मप्रकृतिः | रणतुल्यो-ज्ञानावरणतुल्यो ज्ञातव्यः। स च तावद्यावदभव्यप्रायोग्या जघन्या स्थितिः। तिर्यग्द्विकनीचोत्राणां हि स्थापनायां स्वप्रति॥१३३॥
पक्षप्रकृतिजघन्यस्थितिबन्धादभव्यप्रायोग्याजघन्यतरः स्थितिबन्धः स्थापनीयः। ततोऽभव्यप्रायोग्यजघन्यस्थितिं यावज्ज्ञानावरणतुल्यता द्रष्टव्येत्यर्थः । तत्र तिर्यग्गतिमधिकृत्य भाव्यते-सप्तमपृथिव्यां वर्त्तमानस्य नारकस्य सम्यक्त्वं प्रतिपित्सतस्तिर्यग्गतेजघन्यां | स्थिति बनतो यान्यनुभागबन्धाध्यवसायस्थानानि तेषामसंख्येयतमं भागं मुक्त्वाऽन्यानि सर्वाण्यपि द्वितीयस्थितिबन्धारम्भेऽनुवर्त्तKन्तेऽन्यानि च भवन्ति । द्वितीयां स्थिति बनतो यान्यनुभागबन्धाध्यवसायस्थानानि तेषामसंख्येयतमं भागं मुक्त्वाऽन्यानि सर्वाण्य
पि तृतीयस्थितिबन्धारम्भेऽनुवर्तन्तेऽन्यानि च भवन्ति । एवं तावद्वाच्यं यावत्पल्योपमासंख्येयभागमात्राः स्थितयो गच्छन्ति । अत्र च जघन्यस्थितिस्थानसत्कानुभागबन्धाध्यवसायस्थानानामनुकृष्टिनिष्ठां याति । ततः उपरितनस्थितिबन्धारम्भे द्वितीयस्थितिसत्काना| मनुभागबन्धाध्यवसायस्थानानामनुकृष्टिः समाप्तिमियति । ततोऽप्युपरितनस्थितिबन्धारम्भे तृतीयस्थितिसत्कानुभागबन्धाध्यवसायस्थानानामनुकृष्टिः परिसमाप्तिमेति । एवं तावद्वाच्यं यावदभव्यप्रायोग्यो जघन्यस्थितिबन्धः । तत उपरिष्टादभव्यप्रायोग्यजघन्यस्थितिबन्धादारभ्येत्यर्थः असातेन समता-तुल्यता ज्ञातव्या। 'आजेत्ति-यावज्ज्येष्ठोत्कृष्टा स्थितिः । इदमुक्तं भवति-अभव्यप्रायोग्यां जघन्यां स्थितिं बध्नतो यान्यनुभागबन्धाध्यवसायस्थानानि तानि तत उपरितनस्थितौ सर्वाणि भवन्ति अन्यानि च । तस्यामपि यान्यनुभागबन्धाध्यवसायस्थानानि तानि तत उपरितनस्थितौ सर्वाणि भवन्त्यन्यानि च । एवं तावद्वाच्यं यावत्सागरोपमशतपृथक्त्वम् । एताश्च स्थितयः प्रायोऽभव्यप्रायोग्यजघन्यानुभागबन्धविषयाः। यत एता मनुष्यगतिरूपप्रतिपक्षप्रकृत्या परावृत्य परावृत्य बध्यन्ते परावृ
DDDDDCOSMEs
ARRIORDING
॥१३३॥