SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ स्थितिस्थाने एकसमयोनोत्कृष्टस्थितिबन्धारम्भभाविनामनुकृष्टिर्निष्ठां याति । ततोऽप्यनन्तराधस्तने द्विसमयोनोत्कृष्टस्थितिबन्धारम्भभाविनामनुकृष्टिर्निर्लिप्यते । एवं तावद्वाच्यं यावदात्मीया जघन्या स्थितिः । तीर्थकरनामातिदेशेनाग्रे वक्ष्यमाणमप्यत्र दृश्यं, “परघायबंधणतणू अंगसुवन्नाइ तित्थनिम्माणं । अगुरुलह सासतिगं संघायं छ्याल सुभवगो ||" इत्येवं षट्चत्वारिंशत्प्रकृतिसमुदायरूपस्यापरावर्त्तमानशुभप्रकृतिवर्गस्य परिगणनात्, तत्र च सामस्त्येनेहानुकुष्टेरभिधित्सितत्वात् । उक्ता द्वितीयवर्गेऽनुकृष्टिः । अथ तृतीयवर्गमधिकृत्याह - 'सायस्स उ' इत्यादि । सातस्योत्कृष्टां स्थितिं बघ्नतो यान्यनुभागवन्धाध्यवसाय स्थानानि समयोनोत्कृष्टस्थितिबन्धारम्भेऽपि तानि भवन्ति अन्यानि च । यानि च समयोनत्कृष्टस्थितिबन्धारम्भे भवन्ति द्विसमयोनोत्कृष्टस्थितिबन्धारम्भेऽपि तानि अन्यानि च भवन्ति । एवं तावद्वाच्यं यावदसातेऽसातस्य जघन्यस्थितिबन्धः । अयमिह भावार्थ:- सप्रतिपक्षाणां प्रकृतीनामन्तः कोटा कोट्यादीनि | स्थितिस्थानानि स्थापनीयानि, अभव्यस्य हि जघन्यः स्थितिबन्धः सर्वस्तोकोऽप्यन्तः कोटीकोटी प्रमाणः, तस्मादारभ्य च प्रायोऽनुकृष्टिवक्तव्येति हेतोः । स्थापनायां च सातस्योपरिभागादारभ्याधोमुखमसातस्य चाधोभागादारभ्योर्ध्वमुखं सागरोपमशतपृथक्त्वप्रमाणाः स्थितयः परस्परमाक्रान्ताः स्थापयितव्याः । एतावत्यो हि स्थितयः परावर्च्य परावर्च्य बध्यन्ते तत आक्रान्ताः स्थाप्याः । शेषास्तु सातस्याधोमुखा असातस्य चोर्ध्वमुखाः स्थाप्याः यावत्पर्यन्तवर्त्तिनी निजनिजा स्थितिः, एताश्चान्तराले प्रतिपक्षप्रकृतिबन्धाभावाच्छुद्धा इत्युच्यन्ते । ततोऽसातस्य जघन्यस्थितिबन्धं यावदधोमुखतया सातस्य स्थितयः प्रतिपक्षाक्रान्ताः सागरोपमशतपृथक्त्व प्रमाणा लभ्यन्ते । | तत एतावत्प्रमाणासु सातस्य स्थितिषु तानि चान्यानि चेत्येवं क्रमोऽनुसरणीयः । 'हेटुज्जो असमं' ति - अधस्तात्सातस्य शुद्धस्थितिषु उद्योतसमं यथा प्रागुद्योतस्याभिहितं तथा वक्तव्यम् । तथाहि - स्थापनायामसातस्य यो जघन्यः स्थितिबन्धोऽभव्य प्रायोग्य स्तत्समानं
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy