SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥१२८॥ स्थितयो गता भवन्ति । तत्र चासातजघन्यस्थितिबन्धतुल्य स्थितिस्थानसत्कानामनुभागबन्धाध्यवसायस्थानानामनुकृष्टिः परिसमाप्तिं याति । एतदुक्तं भवति - असातजघन्यस्थितिबन्धतुल्यस्थितिस्थानसत्कानामनुभागबन्धाध्यवसायस्थानानामधोऽघ एकैकस्मिन् स्थितिस्थानेऽसंख्येये भागेऽसंख्येये भागे व्यवच्छिद्यमाने पल्योपमासंख्येयभागमात्रासु स्थितिष्वतिक्रान्तासु सर्वात्मना परिसमाप्तिर्भवतीति । ततोऽसातजघन्यबन्धतुल्यस्थितिस्थानादधस्तनस्थितिस्थान सत्कानामनुभागबन्धाध्यवसायस्थानानामनुकृष्टिः पल्योपमासंख्येयभागमात्रादधः स्थितौ निष्ठामेति । एवं तावद्वाच्यं यावत्सातस्य जघन्या स्थितिः । ' एवं परित्तमाणीण उ सुभाणं' - यथा सातावेदनीयस्योक्तं, तथा सर्वासां परावर्तमानप्रकृतीनां शुभानां मनुजद्विकदेवद्विकपञ्चेन्द्रियजातिसमचतुरस्र संस्थानवज्रर्षभ नाराचसंहननप्रशस्तविहायोगति| स्थिरशुभसुभगसुखरादेययशः कीर्त्यच्चैर्गोत्ररूपाणां पञ्चदशसंख्यानां नामग्राहमनुकृष्टिरभिधातव्या इति ।। ५९-६० ।। ( उ० ) - इयं पञ्चपञ्चाशत्प्रकृतिसमुदायरूपे प्रथमवर्गेऽनुकृष्टिरभिहिता, अथ द्वितीयवर्गे तामाह – पराघातोद्योतोच्छ्वासात पानां | शुभवर्णाद्येकादश कागुरुलघुनिर्माणरूपाणां ध्रुवनाम्नां 'तणुउर्वगाणं' ति - तनुग्रहणेन शरीरसंघातबन्धनानि गृह्यन्ते ततश्च शरीरपश्चकसंघातपञ्चकबन्धनपञ्चदशकाङ्गोपाङ्गत्रयाणां चानुकृष्टिः प्रतिलोममभिधातव्या । तथाहि - एतासां प्रकृतिनामुत्कृष्टस्थितिबन्धारम्भे | यान्यनुभागबन्धाध्यवसाय स्थानानि तेषामसंख्येयं भागं मुक्त्वा शेषाणि सर्वाण्यप्येकसमयोनोत्कृष्टस्थितिबन्धारम्भे प्राप्यन्तेऽन्यानि च भवन्ति । एकसमयोनोत्कृष्ट स्थितिबन्धारम्भे च यानि तेषामसंख्येयतमं भागं मुक्त्वा शेषाणि सर्वाण्यपि द्विसमयोनोत्कृष्ट स्थितिबन्धारम्भे प्राप्यन्तेऽन्यानि च भवन्ति । एवं तावद्वाच्यं यावत्पल्योपमासंख्येयभागमात्राः स्थितयोऽधोऽतिक्रान्ता भवन्ति । अत्रोत्कृष्टस्थितिबन्धारम्भभाविना मनुभागाध्यवसायस्थानानां स्थितिस्थाने स्थितिस्थानेऽसंख्येयभागमोचनेनानुकृष्टिः परिसमाप्ता । ततोऽनन्तरमधस्तने अनुभागबन्धप्ररू पणा. ॥१२८॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy