SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ यह बजाय लिई | तेषामसंख्येयं भागं मुक्त्वा शेषाणि सर्वाण्यपि एकसमयोनोत्कृष्टस्थितिबन्धारम्भे प्राप्यन्ते, अन्यानि च भवन्ति । एकसमयोनोत्कृष्टस्थितिबन्धारम्भे च यान्यनुभागवन्धाध्यवसायस्थानानि तेषामसंख्येयतमं भागं मुक्त्वा शेषाणि सर्वाण्यपि द्विसमयोनोत्कृष्टस्थितिबन्यारम्भे प्राप्यन्ते, अन्यानि च भवन्ति । एवं तावद्वाच्यं यावत्पल्योपमासंख्येयभागमात्राः स्थितियोऽधोऽधोऽतिक्रान्ता भवन्ति । अत्रोत्कृष्टस्थितिवन्यारम्भभाविनामनुभागवन्धाध्यवसायस्थानानां स्थितिस्थाने स्थितिस्थानेऽसंख्येयासंख्येयभागमोचनेनानुकृष्टिः परिसमाप्ता । ततोऽनन्तरमधस्तने स्थितिस्थाने एकसमयोनोत्कृष्टस्थितिबन्धारम्भभाविनामनुभागवन्धाध्यवसायस्थानानामनुकृष्टिः परिनिष्ठां याति । ततोऽप्यधस्तनतरे द्विसमयोनोत्कृष्टस्थितिबन्धारम्भ भाविनामनुभागबन्धाध्यवसायस्थानानामनुॠष्टिः परिसमाप्तिमियर्ति । एवं तावद्वाच्यं यावदुक्तप्रकृतीनां सर्वासामपि आत्मीया आत्मीया जघन्या स्थितिर्भवति । 'सायस्स' इत्यादि । सातस्योत्कृष्टां स्थितिं बघ्नतो यान्यनुभागचन्याध्यवसायस्थानानि समयोनोत्कृष्ट स्थितिबन्धारम्भेऽपि तानि भवन्ति अन्यानि च । यानि समयोनोत्कृष्टस्थितिबन्धारम्भे भवन्ति द्विसमयोनोत्कृष्टस्थितिबन्धारम्भेऽपि तानि भवन्ति अन्यानि च । एवं तावद्वाच्यं यावदसातेऽसातस्य जघन्यः स्थितिबन्धः । किमुक्तं भवति । यावत्प्रमाणाः स्थितयोऽसातस्य जघन्यानुभागबन्धप्रायोग्याः सातेन च सह परावर्त्य परावर्त्य बध्यन्ते तावत्यमाणासु सातस्य स्थितिषु तानि चान्यानि चेत्येवं क्रमोऽनुसरणीयः । 'हेट्टुजोयस मं' ति - अधस्तादुद्योतसमं वक्तव्यं, यथा प्रागुद्योतस्याभिहितं तथात्रापि वक्तव्यमित्यर्थः । तद्यथा - असातस्य जघन्यस्थितिबन्धादयस्तने स्थितिस्थाने यान्यनुभागबन्याध्यवसायस्थानानि तानि कानिचिदुपरितनस्थितिस्थानसत्कानि कानिचिदन्यानि । तस्मादप्यधस्तने स्थितिस्थाने यानि अनुभागवन्धाध्यवसायस्थानानि तानि कानिचित्प्राक्तनस्थितिस्थानसत्कानि कानिचिदन्यानि । अनेन च क्रमेणाधोमुखं तावन्नेयं यावत्पल्योपमासंख्येयभागमात्राः
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy