________________
कर्मप्रकृति ॥१२५॥
पणा.
सर्वाण्यपि चतुर्थस्थितिबन्धारम्भे प्राप्यन्ते, अन्यानि च भवन्ति । एवं तावद्वाच्यं यावत्पल्योपमासंख्येयभागमात्राः स्थितयो गता भवन्ति । अत्र जघन्यस्थितिबन्धारम्भभाविनामनुभागबन्धाध्यवसायस्थानानामनुकृष्टिः परिसमाप्ता । यत्र च जघन्यस्थितिबन्धारम्भ
अनुभागभाविनामनुभागबन्याध्यवसायस्थानानामनुकृष्टिः परिसमाप्ता ततोऽनन्तरमुपरितने स्थितिबन्धे द्वितीयस्थितिबन्धारम्भभाविनामनु
बन्धप्ररूभागबन्धाध्यवसायस्थानानामनुकृष्टिः परिसमाप्तिमियति । तथा चाह-'बिइयस्स होइ बिइयंमि'-द्वितीयस्य स्थितिबन्धस्य संबन्धिनामनुभागबन्धाध्यवसायस्थानानामनुकृष्टिद्वितीये-यत्र जघन्यस्थितिबन्धारम्भभाविनामनुभागबन्धाध्यवसायस्थानानामनुकृष्टिः प| रिसमाप्ता ततोऽनन्तरे परिनिष्ठां याति । तृतीयस्थितिबन्धारम्भभाविनां चानुभागबन्धाध्यवसायस्थानानामनुकृष्टिस्ततोऽप्यनन्तरे परि-१६ समाप्तिं याति । एवं तावद्वाच्यं यावदुक्तप्रकृतीनामात्मीयात्मीयोत्कृष्टा स्थितिर्भवति । तथा चाह-'आ उक्कस्सा एवं' । एवममुना प्रका
रेण आ उत्कर्षादवगन्तव्यम् । तथोपघातेऽप्येवमेवानुकृष्टिरभिधातव्या यथा घातिप्रकृतीनामभिहिता अनुकृष्टिरिति । अनुकर्षणमनुकृष्टिपारनुवर्तनमित्यर्थः ॥५७-५८॥
(उ०)-अथानुभागबन्धस्थानानां तीवमन्दतापरिज्ञानार्थमनुकृष्टिमभिधित्सुराह-इह ग्रन्थिदेशे वर्तमानस्याभव्यस्य योजघन्यः स्थितिबन्धस्तस्मात् स्थितिवृद्धावनुकृष्टिरभिधीयमानाऽनुस”व्या । सातवेदनीयमनुजद्विकदेवद्विकतिर्यग्द्विकपश्चेन्द्रियजातित्रसदशकाद्यसंहननसंस्थानप्रशस्तविहायोगत्युचैर्गोवनीचर्गोत्राणां त्वभव्यप्रायोग्यजघन्यबन्धादधोऽप्यनुसतव्या। इह च वर्गे वगंऽनुकृष्टिस्तीत्रमन्दत्वानि च | स्वस्थाने तुल्यानीति चत्वारो वर्गाः परिगृह्यन्ते-अपरावर्त्तमानाशुभप्रकृतिवर्गः, अपरावर्त्तमानशुभप्रकृतिवर्गः, परावर्त्तमानशुभप्रकृतिवर्गः, परावर्त्तमानाशुभप्रकृतिवर्गश्चेति । तत्र घातिप्रकृतय उपघातमशुभवर्णनवकं चेत्यपरावर्त्तमानाशुभप्रकृतिवर्गः। पराघातबन्धनतनुसंघातनांगो-।
१२५।।