________________
२] पांगसुवर्णाद्येकादशकतीर्थकरनिर्माणागुरुलघूच्छ्वासातपोद्योता अपरावर्त्तमानशुभप्रकृतिवर्गः । सातवेदनीयस्थिरादिषट्कोचोंत्रदेवद्विक-16
मनुजद्विकपञ्चेन्द्रियजातिसमचतुरस्रवज्रर्षभनाराचप्रशस्तविहायोगतयः परावर्त्तमानशुभप्रकृतिवर्गः । असातस्थावरदशकनरकद्विकाप्रशस्तविहायोगत्याद्यजातिचतुष्टयानाद्यसंस्थानसंहननानि परावर्त्तमानाशुभप्रकृतिवर्गः। तत्र प्रथम वर्गमधिकृत्येदमभिधीयते-घातिनां पञ्चविधज्ञानावरणनवविधदर्शनावरणमिथ्यात्वषोडशकषायनवनोकषायपञ्चविधान्तरायलक्षणानां, अशुभवर्णगन्धरसस्पर्श च, अत्र षष्टयर्थे | सप्तमीति, अशुभानां वर्णगन्धरसस्पर्शानां कृष्णनीलदुरभिगन्धतिक्तकटुगुरुकर्कशरूक्षशीतरूपाणामित्यर्थः । जघन्य स्थितिबन्धे यान्यनुभा| गबन्धाध्यवसायस्थानानि तदेकदेशः-तदेकदेशप्रमाणान्यन्यानि द्वितीयस्थितिबन्धेऽधिकान्यायान्ति, तावन्ति चासंख्येयं भागं मुक्त्वा 2 द्वितीयस्थितिबन्धारम्भे प्राप्यन्त एव । इदमुक्तं भवति-जघन्यस्थितिबन्धारम्भे यान्यनुभागबन्धाध्यवसायस्थानानि तेषामसंख्येयभागं | मुक्त्वा शेषाणि सर्वाण्यपि द्वितीयस्थितिस्थानबन्धारम्भे गच्छन्ति, तदेकदेशेनान्यानि च भवन्ति । तदुक्तम्-"मोत्तुमसंखं भागं | जहन्नठिइठाणगाण सेसाई । गच्छंति उवरिमाए तदेकदेसेण अण्णाई ॥” द्वितीयस्थितिबन्धारम्भे च यान्यनुभागबन्धाध्यवसायस्थानानि तेषामसंख्येयतमं भागं मुक्त्वा शेषाणि सर्वाण्यपि तृतीयस्थितिस्थानवन्धारम्भे गच्छन्ति, अन्यानि च भवन्ति । तृतीयस्थिति-E बन्धारम्भे च यान्यनुभागबन्धाध्यवसायस्थानानि तेषामसंख्येयतमं भागं मुक्त्वा शेषाणि सर्वाण्यपि चतुर्थस्थितिस्थानवन्धारम्भ गच्छन्ति, अन्यानि च भवन्ति । एवं तावद्वाच्यं यावत्पल्योपमासंख्येयभागमात्राः स्थितयो गता भवन्ति । अत्र च जघन्यस्थितिबधारम्भभाविनामनुकृष्टिः परिसमाप्ता । द्वितीयस्य स्थितिबन्धस्य सम्बन्धिनामनुभागबन्धाध्यवसायस्थानानामनुकृष्टिद्वितीये--यत्र जघघन्यस्थितिबन्धारम्भभाविनामनुभागबन्धाध्यवसायस्थानानामनुकृष्टिः परिसमाप्ता ततोऽनन्तरे परिनिष्ठां याति । ततश्चानन्तरे तृती