SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ . ठितीओ ताव तदेगदेसो य अण्णाणि य । एमा जहणियाए द्वितीए अणुभागबंधजनवमाणहाणाणं अणुकड़ी ठिता। तओ अणंतरे उवरिमे समए वितियाए द्वितीए अणुकड्डी हायइ-बितियम्स होइ बीइयम्मि'ति। 'आ उक्कस्मा | एवं' ति-जाए ठितीए बित्तियहितीए अणुकड्डी द्विता ततो अणंतरे उवरिमे समए तझ्याए द्वितीए अणुकड्डी हा| यइ, एवं जाव अप्पणो उक्कमिया द्विति त्ति सवपगतीणं अप्पणो णामाणि घेत्तृण अणुकड्डी णेयवा ॥५७-५८॥ (मलय०)-साम्प्रतमनुभागवन्धस्थानानां तीव्रमन्दतापरिज्ञानार्थमनुभागबन्धाध्यवसायस्थानानामनुकृष्टिमभिधातुकाम आह–'घाइण ति । इह प्रायो ग्रन्थिदेशे वर्तमानस्याभव्यजीवस्य यो जघन्यस्थितिबन्धस्तस्मात् स्थितिवृद्धौ अनुकृष्टिरभिधीयमानाऽनुसतव्या । सातवेदनीयमनुजद्विकदेवद्विकतियरिद्वकपश्चेन्द्रियजातित्रसबादरपर्याप्तप्रत्येकसमचतुरस्रसंस्थानवर्षभनाराचसंहननप्रशस्तविहायोगतिस्थिरशुभसुभगसुस्वरादेययशाकीत्युच्चैगोत्रनीचर्गोत्राणामभव्यप्रायोग्यजघन्यबन्धादधोऽप्यनुसतव्या । तत्र घातिनां पञ्चविधज्ञानावरणनवविधदर्शनावरणमिथ्यात्वषोडशकपायनवनोकषायपञ्चविधान्तरायलक्षणानां कर्मणामशुभगन्धवर्णरसस्पर्श च, अत्र पष्ठयर्थे सप्तमी, अशुभानां वर्णगन्धरसस्पर्शानां च कृष्णनीलदुरभिगन्धतिक्तकटुकगुरुकर्कशरूक्षशीतरूपाणां जघन्यस्थितिबन्धे यान्यनुभागबन्धाध्यवसायस्थानानि तेषामेकदेशो द्वितीये स्थितिबन्धेऽनुवर्तते, अन्यानि च भवन्ति । इदमुक्तं भवति-जघन्यस्थितिबन्धारम्भे यान्यनुभागबन्धाध्यवसायस्थानानि तेषामसंख्येयतमं भागं मुक्त्वा शेषाणि सर्वाण्यपि द्वितीयस्थितिबन्धारम्भे प्राप्यन्ते, अन्यानि च भवन्ति । द्वितीयस्थितिबन्धारम्भे च यान्यनुभागबन्धाध्यवसायस्थानानि तेषामसंख्येयतमं भागं मुक्त्वा शेषाणि सर्वाण्यपि तृतीयस्थितिबन्धारम्भे प्राप्यन्ते, अन्यानि च भवन्ति । तृतीयस्थितिबन्धारम्भे च यान्यनुभागबन्धाध्यवसायस्थानानि तेषामसंख्येयतमं भागं मुक्त्वा शेषाणि
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy