________________
विशेषाधिकानि, त्रिचरमे कषायोदये विशेषाधिकानि चतुरमे कपायोदये विशेषाधिकानि एवं तावद्वाच्यं यावत्सर्वजघन्यं कषायोदयस्थानम् । इयमनन्तरोपनिधया वृद्धिमार्गणा । परम्परोपनिधया तु वृद्धिमार्गणेयम् उत्कृष्टकपायोदयस्थानादारभ्यासंख्येयलोकाकाशप्रदेशराशिप्रमाणानि कपायोदयस्थानानि अधोभागेनातिक्रम्य यदपरमधः कपायोदयस्थानं तस्मिन्ननुभागवन्धाध्यवसायस्थानानि उत्कृष्टकपायोदयसत्कानुभागबन्धाध्यवसायस्थानापेक्षया द्विगुणानि भवन्ति । पुनरपि तावन्ति कपायोदयस्थानानि ततः प्रभृत्यधोभा गेनातिक्रभ्य यदपरमधः कषायोदयस्थानं तस्मिन् द्विगुणानि भवन्ति । एवं भूयो भूयस्तावद्वाच्यं यावज्जघन्यं कपायोदयस्थानम् । यानि चान्तरान्तरा नानारूपाणि द्विगुणवृद्धिस्थानानि तान्यावलिकाया असंख्येयभागे यावन्तः समयास्तावत्प्रमाणानि भवन्ति । अमूनि चावलिकाया असंख्येयभागमात्राणि शुभप्रकृतीनां अशुभप्रकृतीनां च प्रत्येकं द्विगुण वृद्धिस्थानानि स्तोकानि, एकस्मिन्नपि द्विगुणवृद्ध्यपान्तराले कपायोदयस्थानानि असंख्येयगुणानि । तदेवं स्थितिबन्धहेतुष्वध्यवसायेषु अनुभागबन्धहेतूनामध्यवसायानां प्ररूपणा कृता । सम्प्रति स्थितिबन्धस्थानेष्वनुभागबन्धप्ररूपणां चिकीर्षुराह - 'ठिइबन्ध' इत्यादि । स्थितिबन्धस्थानेष्वपि आयुर्वर्जानां सर्वासां प्रकृतीनां कषायोदयेष्वनुभागबन्धाध्यवसायस्थानवदनुभागबन्धस्थानानि वक्तव्यानि । तद्यथा-तत्र पूर्वोक्तानामायुर्वर्जानामशुभप्रकृतीनां जघन्यस्थितावनुभागबन्धस्थानान्यसंख्येयलोकाकाशप्रदेशप्रमाणानि तानि च स्तोकानि । ततो द्वितीयस्थितौ विशेषाधिकानि । ततोऽपि तूतीयस्थितौ विशेषाधिकानि । एवं तावद्वाच्यं यावदुत्कृष्टा स्थितिः । तथा पूर्वोक्तानामायुर्वर्जानां शुभप्रकृतीनामुत्कृष्टस्थितावनुभागबन्धस्थानान्यसंख्येयलोकाकाशप्रदेशप्रमाणानि तानि च स्तोकानि । तेभ्यः समयोनायामुत्कृष्टस्थितौ विशेषाधिकानि । ततोऽपि द्विसमयोनायामुत्कृष्टस्थितौ विशेषाधिकानि । एवं तावद्वाच्यं यावज्जघन्या स्थितिरिति ॥ ५५ ॥