SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥१२॥ (उ०) सर्वासामशुभप्रकृतीनां ज्ञानावरणपञ्चकदर्शनावरणनवकासातवेदनीयमिथ्यात्वकषायषोडशकनोकषायनवकनरकायुराद्यजातिचतुष्टयाप्रथमसंस्थानपश्चकसंहननपञ्चककृष्णनीलवर्णदुरभिगन्धतिक्तकदुरसकर्कशगुरुरूक्षशीतस्पर्शरूपाशुभकुवर्णादिनवकनरकगतिनर-या अनुभागकानुपूबितिर्यग्गतितिर्यगानुपूर्व्यप्रशस्तविहायोगत्युपघातस्थावरदशकनीचैर्गोत्रान्तरायपश्चकलक्षणानां सप्ताशीतिसंख्यानामेषा प्रागुक्ता बन्धप्ररू पणा. ऽनुभागधन्धाध्यवसायस्थानानां वृद्धिमार्गणा द्रष्टव्या। शुभप्रकृतीनां देवत्रिकमनुजत्रिकतिर्यगायुःसातवेदनीयपश्चेन्द्रियजातिशरीरपञ्चकसंघातनपश्चकबन्धनपञ्चदशकाङ्गोपाङ्गत्रयाद्यसंहननसंस्थानशुभवर्णाद्येकादशकपराघातागुरुलघूछ्वासातपोद्योतनिर्माणप्रशस्तविहायोगतित्रसदशकतीर्थकरोच्चैर्गोत्रलक्षणानामेकोनसप्ततिसंख्यानां विपर्ययं जानीहि । तथाहि-उत्कृष्टे कषायोदयेऽनुभागबन्धाध्यवसायस्थाना| न्यासां सर्वस्तोकानि, द्विचरमे विशेषाधिकानि, त्रिचरमे विशेषाधिकानि, एवं तावद्वाच्यं यावत्सर्वजघन्यं कपायोदयस्थानम् । इयमन|न्तरोपनिधया वृद्धिमार्गणा । परम्परोपनिधया वृद्धिमार्गणायां तूत्कृष्टकषायोदयस्थानादारभ्य यावत्सर्वजघन्यं कषायोदयस्थानं तावदधो| ऽधोऽसंख्येयलोकाकाशप्रदेशप्रमाणकषायोदयस्थानातिक्रमे यद्यत्स्थानमागच्छति तत्र तत्रानुभागबन्धाध्यवसायस्थानानां द्विगुणवृद्धि च्या । तानि च नानारूपाणि द्विगुणवृद्धिस्थानान्यावलिकाऽसंख्येयभागप्रमाणानि द्रष्टव्यानि । अमूनि चोक्तप्रमाणानि शुभप्रकृती| नामशुभप्रकृतीनां च प्रत्येकं द्विगुणस्थानानि स्तोकानि । एकस्मिन् द्विगुणवृद्ध्यपान्तराले कषायोदयस्थानान्यसंख्येयगुणानि । तदेवं | स्थितिबन्धहेतुष्वध्यवसायेष्वनुभागबन्धहेतूनामध्यवसायानां प्ररूपणा कृता । अथ स्थितिबन्धस्थानेष्वनुभागबन्धस्थानप्ररूपणां कुर्व बाह-स्थितिबन्धस्थानेष्वपि सर्वासामायुर्वर्जानां प्रकृतीनां कषायोदयेष्वनुभागबन्धाध्यवसायस्थानानीवानुभागबन्धस्थानानि वक्त-1॥१२१॥ | व्यानि । तत्र पूर्वोक्तानामायुर्वर्जानामशुभप्रकृतीनां जघन्यस्थितावनुभागबन्धस्थानान्यसंख्येयलोकाकाशप्रदेशप्रमाणानि । तानि च SOCIAsaas
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy