SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ या हि कृष्णादिलेश्यापरिणामविशेषा अनुभागबन्धहेतवः" इतिवचनात् असंख्येया लोका भवन्ति-असंख्येयलोकाकाशप्रदेशप्रमाणानि भवन्तीत्यर्थः । तथा जघन्य स्थितेरारभ्योत्कृष्टां स्थिति यावद्यावन्तः समयास्तावन्ति स्थितिस्थानानि, तथाहि - जघन्या स्थितिरेकं स्थितिस्थानम्, सैव समयोत्तरा द्वितीयं स्थितिस्थानम् द्विसमयोत्तरा तृतीयं स्थितिस्थानम्, एवं समयवृद्ध्या तावद्वाच्यं यावदुत्कृष्टा स्थितिः । एवं चासंख्येयानि स्थितिस्थानानि भवन्ति । तेषु चासंख्येयेषु स्थितिबन्धस्थानेषु प्रत्येकमेकैकस्मिन् स्थितिबन्धस्थानेऽध्यवसायस्थानानि तीव्रतीत्रतरमन्दमन्दतरादिकपायोदय विशेषरूपाणि असंख्येयलोकाकाशप्रदेशप्रमाणानि भवन्ति ॥ ५२ ॥ (उ०) - तदेवमनुभागबन्धस्थानेषु तन्निबन्धनेषु चाध्यवसानेषु यथा जीवा वर्त्तन्ते तथा प्ररूपितम् । अथैकैकस्मिन् स्थितिस्थानाध्यवसाये नानाजीवापेक्षया कियन्तोऽनुभागवन्धाध्यवसायाः प्राप्यन्त इत्येतन्निरूपयितुमाह – एकैकस्मिन् कषायोदये स्थितिस्थाननिब|न्धनभूते नानाजीवापेक्षयाऽनुभागवन्धाध्यवसायस्थानानि कृष्णादिलेश्यापरिणामविशेषरूपाण्य संख्येयलोकाकाशप्रदेशप्रमाणानि भवन्ति । तथाहि-- जघन्य स्थितेरारभ्योत्कृष्टां स्थितिं यावद्यावन्तः समयास्तावन्ति स्थितिस्थानानि । तथाहि - जघन्या स्थितिरेकं स्थितिस्थानं, सैव समयोत्तरा द्वितीयं द्विसमयोत्तरा तृतीयं, एवं समयवृद्ध्या तावद्वाच्यं यावदुत्कृष्टा स्थितिः । एवं चासंख्येयानि स्थितिस्थानानि भवन्ति । तेषु च प्रत्येकमेकैकस्मिन् स्थितिबन्धस्थानेऽध्यवसायस्थानानि तीव्रमन्दादिकषायोदयविशेषरूपाण्यसंख्येयलोकाकाशप्रदेशप्रमाणानि भवन्ति । एकैकस्मिथ कषायोदये सति असंख्येयलोकाकाशप्रदेशप्रमाणान्यनुभागबन्धस्थानानि कृष्णादिलेश्यापरिणामविशेषरूपाणि भवन्ति, “सकपायोदया हि कृष्णादिलेश्यापरिणामविशेषा अनुभागबन्धहेतवः" इति वचनात् इति मिलितोऽर्थः । यत्तु “स्थितिपाकविशेषस्तस्य भवति लेश्याविपेशेणे" ति वाचकवचनं तत्रापि पाकपद महिनाऽनुभाग एव ग्राह्य इति वृद्धवादः ॥ ५२ ॥ काइद
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy