SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ तोऽपि सर्वेष्वपि अनुभागवन्धस्थाननिवन्धनेषु विशेषाधिका इति ॥ ४९-५०-५१ ॥ ___ (उ०)-कृता यवमध्यप्ररूपणा । अथ स्पर्शनाप्ररूपणामाह-अतीते काले एकस्य जीवस्योत्कृष्टे द्विसामयिकेऽनुभागबन्धस्थाने स्पर्शनाकालः स्तोकः, अतीते काले परिभ्रमता जन्तुना स्तोकमेव कालं द्विसामयिकान्यनुभागबन्धस्थानानि स्पृष्टानीत्यर्थः । जघन्ये त्वनुभागबन्धस्थाने-प्राथमिकेषु चतुःसामयिकेष्वित्यर्थः, अतीते काले स्पर्शनाकालोऽसंख्येयगुणः । कण्डके तावन्मात्र एव स्पशनाकालो यावन्मात्र आधेषु चतुःसामयिकेषु । कण्डकं नामोपरितनानि चतुःसामयिकानि स्थानानि । ततो यवमध्येष्वष्टसामयिकेषु स्थानेषु स्पर्शनाकालोऽसंख्येयगुणः । ततः कण्डकस्योपरिवर्तिचतुःसामयिकस्थानसंघातरूपस्योपरितनेषु त्रिसामयिकेषु स्थानेषु स्पर्शनाकालोऽसंख्येयगुणः । ततो यवमध्यस्याधस्तात् पञ्चषःसप्तसामयिकेष्वसंख्येयगुणः, उपरितनत्रिसामयिकस्पर्शनापेक्षया समुदितानि प्राथमिकाकानि पञ्चपदसप्तसामयिकान्यसंख्येयगुणकालं स्पृष्टानीत्यर्थः, स्वस्थाने त्वेषां तुल्यः स्पर्शनाकालः । ततः क्रमश:-क्रमेण यवमध्यादु-। परितनेषु कण्डकाद्-उपरितनचतुःसामयिकसंघातरूपादधस्तनेषु पञ्चपट्सप्तसामयिकेषु स्वस्थानेषु तावन्मात्र एव स्पर्शनाकालो यावन्मात्रः | पाश्चात्येषु पञ्चषट्सप्तसामयिकेषु । ततो यवमध्यस्योपरितनेषु द्विसामयिकपर्यन्तेषु सर्वेष्वपि स्थानेषु यः स्पर्शनाकालः स विशेषाधिकः । ततोऽपि कण्डकस्य-यवमध्योपरिवर्तिचतुःसामयिकस्थानसंघातरूपस्याधस्तात्सर्वेष्वपि स्थानेषु जघन्यचतुःसामयिकपर्यन्तेषु स्पर्शनाकाल: समुदितो विशेषाधिकः । ततोऽपि सर्वस्थानेषु स्पर्शनाकालो विशेषाधिकः । कृता स्पर्शनाप्ररूपणा । सम्पत्यल्पबहुत्वप्ररूपणार्थमाहGAI 'जीवप्पाब'त्ति । जीवाल्पबहुत्वमेवमध्यवसायस्थानेषु जानीयात् । तथाहि-द्विसामयिकानुभागनिबन्धनभूतेष्वध्यवसानेषु वर्तमाना जीवाः स्तोकाः । ततः प्राथमिकचतुःसामयिकानुभागनिबन्धनभृतेष्वसंख्येयगुणाः । एतावन्त एवोपरिवर्तिचतुःसामयिकानुभागबन्ध
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy