SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ विन्धप्ररू ततो यवमध्येषु स्थानेषु-अष्टसामयिकेष्वित्यर्थः, स्पर्शनाकालोऽसंख्येयगुणः । ततः कण्डकस्योपरिवर्ति-चतुःसामयिकस्थानसंघातरूपकमेप्रकृतिल स्योपरितनेषु स्थानेषु त्रिसामयिकेष्वित्यर्थः, स्पर्शनाकालोऽसंख्येयगुणः । ततो यवमध्यस्याधस्तात् पञ्चषट्सप्तसामयिकेष्वसंख्येयगुणः, अनुभाग॥१६॥ स्वस्थाने तु परस्परं तुल्यः । ततः 'क्रमशः'-क्रमेण यवमध्यादुपरितनेषु कण्डकाचतुःसामयिकस्थानसंघातरूपादधस्तनेषु पञ्चषट्सप्तसा-1 पणा. मयिकेषु स्थानेषु तावन्मात्र एव स्पर्शनाकालो यावन्मात्रः पाश्चात्येषु पञ्चषट्सप्तसामयिकेषु । ततो 'यवमध्यस्य'-अष्टसामयिकस्थानसंघातरूपस्योपरितनेषु द्विसामयिकपर्यन्तेषु सर्वेष्वपि स्थानेषु यः स्पर्शनाकालः स विशेषाधिकः । ततोऽपि कण्डकस्य यवमध्यस्योपरिवति| चतुःसामयिकस्थानसंघातरूपस्याधस्तात् सर्वेष्वपि स्थानेषु जघन्यचतुःसामयिकपर्यन्तेषु स्पर्शनाकालः समुदितो विशेषाधिकः । ततोऽपि सर्वेष्वपि स्थानेषु स्पर्शनाकालो विशेषाधिकः। सम्यग्ज्ञानं तु पटस्थापनातः कर्त्तव्यम् । कृता स्पर्शनाप्ररूपणा। सम्प्रत्यल्पबहुत्वप्ररूपणा१५ | माह-'जीवप्पाबहु' इत्यादि । यथा स्पर्शनाकालस्याल्पबहुत्वमुक्तम् एवं जीवानामपि अध्यवसानेषु-अनुभागबन्धस्थाननिमित्तभूतेषु वर्तमानानामल्पबहुत्वं जानीयात् । तद्यथा-उत्कृष्टेष्वध्यवसानेषु द्विसामयिकानुभागनिबन्धनभृतेषु वर्तमाना जीवाः स्तोकाः, ततो जघन्येषु चतुःसामयिकानुभागबन्धनिबन्धनभृतेष्वसंख्येयगुणाः, एतावन्त एव चोपरिवर्तिचतुःसामयिकानुभागबन्धस्थाननिबन्धनेष्वध्यवसानेषु, ततोऽपि यवमध्यकल्पानुभागबन्धस्थाननिवन्धनेष्वसंख्येयगुणाः, ततोऽपि त्रिसामयिकानुभागबन्धस्थाननिमित्तष्वसंख्येयगुणाः, ततोऽप्याद्यपश्चषट्सप्तसामयिकानुभागबन्धस्थानहेतुष्वध्यवसानेषु असंख्येयगुणाः, एतावन्त एवोपरितनपश्चषट्सप्तसामयिकानुभागबन्धस्थाननिबन्धनेष्वध्यवसानेषु, ततो यवमध्योपरिवर्तिनिःशेषानुभागबन्धस्थाननिबन्धनभूतेष्वध्यवसानेषु वर्तमाना जीवा ॥११६॥ विशेषाधिकाः, ततोऽप्युपरिवर्तिपञ्चसामयिकपर्यवसानप्राथमिकचतुःसामयिकप्रभृतिसमस्तानुभागबन्धस्थाननिबन्धनेषु विशेषाधिकाः, त-EI SROSSEDISSESig
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy