SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥११४॥ Xx | वेसु तसकातिताणं जं एगं दुगुणं वड्डि अंतरं तं (तो) असंखेज्जगुणं (णाणि) थावरजीवाणं णाणागुणहाणिट्ठाणंतराणि भवंति । णाणाजीवगुणहाणिट्ठाणंतराणि धोवाणि, एगगुणहाणीद्वाणंतरं असंखेजगुणं एवं तसाणं, थावराणं सव्वधोवं एगगुणहाणिट्ठाणंतरं, णाणागुणहाणिठाणंतराणि असंखेज्जगुणाणि । जवमज्झपरूवणताएं द्वाणाणं असंखेजति भागो जवमज्झं जवमज्झस्स हेट्ठतो द्वाणाणि धोवाणि उवरिं असंखेज्जगुणाणि ॥ ४८ ॥ (मलय ० ) - 'नाणंतराणि 'ति । 'नानान्तराणि' - नानाप्रकाराणि द्विगुणवृद्धिद्विगुणहान्यपान्तरालरूपाणि यानि तानि त्रसेषु - त्रसकायेषु आवलिकाया असंख्येयतमे भागे यावन्तः समयास्तावत्प्रमाणानि भवन्ति । ननु आवलिकाया असंख्येयभागमात्राण्येवानुभागबन्धस्थानानि त्रसजीवैर्निरन्तरं बध्यमानानि प्राप्यन्ते, एतच्च प्रागेवोक्तम्, तत्कथं त्रसेषु द्विगुणवृद्धिद्विगुणहान्यन्तराणि यथोक्तप्रमाणानि भवन्ति ? एवं कापि द्विगुणवृद्धिर्द्विगुणहानिर्वा न प्राप्नोतीति भावः । नैष दोषः, यतः प्रागावलिकाऽसंख्येयभागमात्राणि त्रसजीवैर्निरन्तरं बध्यमानतया प्राप्यमाणान्युक्तानि इह तु यद्यप्यावलिका संख्येयभागमात्रेभ्यः स्थानेभ्यः पराणि स्थानानि बध्यमानानि सम्प्रति न | प्राप्यन्ते तथापि कदाचित्प्राप्यन्ते तेषु च जीवा उत्कृष्टपदे क्रमेण विशेषाधिका लभ्यन्ते, ततो यथोक्तप्रमाणनि द्विगुणवृद्धि द्विगु| महानिस्थानानि न विरुध्यन्ते । तथा 'इतरेषु' स्थावरेषु - एकस्मादन्तरात्त्रसकायसत्कादसंख्येयगुणानि नानारूपाण्यन्तराणि भवन्ति । | किंमुक्तं भवति । त्रसकायिकानामेकस्मिन् द्वयोर्द्विगुण वृद्ध्योर्द्विगुणहान्योर्वाऽपान्तराले यानि स्थानानि तेभ्यो ऽसंख्येयगुणानि स्थावरका|यिकानां द्विगुणवृद्धिद्विगुणहान्यन्तराणि । इह त्रसजीवेषु द्विगुणवृद्धि द्विगुणहान्यन्तराणि स्तोकानि, एकस्मिन् द्विगुणवृद्धिस्थानयोर्द्विगुणहानिस्थानयोर्वाऽपान्तराले यानि स्थानानि तान्यसंख्येयगुणानि, एवं त्रसानाम् । स्थावराणां पुनर्द्वयोर्द्विगुण वृद्धयोर्द्वगुणहान्योर्वा Nav552222 a अनुभागबन्धप्ररू पणा. ॥११४॥
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy