________________
___ (मलय)-गताऽनन्तरोपनिधा । परम्परोपनिधामाह-'गंतूण' इति । जघन्यानुभागवन्धस्थानबन्धक यो जीवेभ्यो जघन्यानुभा| गबन्धस्थानादारभ्यासंख्येयलोकाकाशप्रदेशप्रमाणानि स्थानान्यतिक्रम्य परं यदनुभागवन्धस्थानं तद्बन्धका जीया द्विगुणा वृद्धा भवन्ति । ततः पुनरपि तावन्ति स्थानान्यतिक्रम्यापरस्यानुभागबन्धस्थानस्य बन्धका द्विगुणवृद्धा भवन्ति । एवं द्विगुणवृद्धिस्तावद्वक्तव्या यावद्यवमध्यम् । ततोऽसंख्येयलोकाकाशप्रदेशप्रमाणानि स्थानान्यतिक्रम्यापरस्यानुभागबन्धस्थानस्य ये बन्धका जीवास्तेऽनन्तरमुक्तेभ्यो । जीवेभ्यः सकाशात् द्विगुणहीना भवन्ति । ततः पुनरपि तावन्ति स्थानान्यतिक्रम्यापरस्यानुभागबन्धस्थानस्य बन्धका द्विगुणहीना भवन्ति । एवं द्विगुणहानिस्तावद्वक्तव्या यावत्स्वस्वप्रायोग्यं सर्वोत्कृष्टमनुभागबन्धस्थानमिति ।। ४७॥ | (उ०)-गताऽनन्तरोपनिधा, परम्परोपनिधामाह-जघन्यानुभागवन्धस्थानबन्धकेभ्यो जीवेभ्यो जघन्यानुभागबन्धस्थानादारभ्या| संख्येयलोकाकाशप्रदेशप्रमाणानि स्थानान्यतिक्रम्य परं यदनुभागवन्धस्थानं तद्वन्धका जीवा द्विगुणा वृद्धा भवन्ति । ततः पुनरपि | तावत्स्थानातिक्रमे परस्यानुभागवन्धस्थानस्य बन्धका द्विगुणवृद्धा भवन्ति । एवमेतावत्स्थानातिक्रमे द्विगुणवृद्धिनियामकानि स्थानानि
तावद्वाच्यानि यावद्यवमध्यम् । ततोऽसंख्येयलोकाकाशप्रदेशप्रमाणस्थानातिक्रमे परस्यानुभागबन्धस्थानस्य बन्धका द्विगुणहीना भवन्ति । | एवं द्विगुणहानिस्तावद्वक्तव्या यावत्सर्वोत्कृष्टं द्विसामयिकमनुभागबन्धस्थानम् ॥ ४७॥ | नाणंतराणि आवलियअसंखभागो तसेसु इयरेसु । एगंतरा असंखियगुणाइ नाणंतराइं तु ॥४८॥
(चू०)—'णाणंतराणि आवलियअसंखभागो तसेसुत्ति-एते अंतरंतरे दुगुणहाणिवडिहाणा आवलियाए असंखेजत्तिभागमेत्ता तसकातिगाणं । इयरेसु एक्कंतरा असंखेनगुणाति नाणंतराति तु'त्ति-इतरेसुत्ति थावरजी
GACARRASSERStras