________________
एकस्मिन्नपान्तराले यानि स्थानानि तानि स्तोकानि, द्विगुणवृद्धिद्विगुणहान्यन्तराणि पुनरसंख्येयगुणानि । कृता वृद्धिप्ररूपणा । सम्प्रति यवमध्यप्ररूपणा क्रियते यवमध्यस्थानानि अष्टसामयिकानि शेषस्थानापेक्षयाऽसंख्येयभागमात्राणि । तथा यवमध्यस्याधस्तनानि स्थानानि स्तोकानि, ततो यवमध्यस्योपरितनानि असंख्येयगुणानि । उक्तं च-"जवमझे ठाणाई असंखभागो उ सेसटाणाणं । हेहुमि होति थोवा उवरिम्मि असंखगुणियाणि" ॥४८॥
(उ०)-नानान्तराणि-नानाप्रकाराणि द्विगुणवृद्धिद्विगुणहानिरूपाणि मध्यगतानि स्थानानि बसेषु आवलिकाऽसङ्खथेयतमे भागे यावन्तः समयास्तावत्प्रमाणानि । तथा चान्यत्राप्युक्तं-"आवलिअसंखभागो तसेसु हाणीण होइ परिमाणं" । नन्वावलिकाऽसंख्येय| भागमात्राण्येवानुभागबन्धस्थानानि त्रसजीवनिरन्तरं बध्यमानानि प्राप्यन्त इति प्रागुक्तं तत्कथं बसेषु द्विगुणवृद्धिहानय इयत्योऽभिधीयन्ते ?एवं ह्येकापि द्विगुणवृद्धिद्विगुणहानिर्वा न प्राप्नोति,सत्यं,प्रागावलिकाऽसङ्कयेयभागमात्राणि स्थानानि त्रसैनिरन्तरं बध्यमानतया प्राप्यमाणान्युक्तानि, इह तु कालान्तरे बध्यमानान्यपि गृह्यन्ते, तेषु च जीवा उत्कृष्टपदे क्रमेण विशेषाधिका लभ्यन्ते, ततो यथोक्तप्रमाणा द्विगुणवृद्धिहानयो न विरुध्यन्ते । तथेतरेषु-स्थावरेषु एकस्मादन्तरात् ,त्रसकायिकानामेकस्मिन् द्वयोगुिणवृद्धयोगुिणहान्योर्वाऽपान्तराले यानि स्थानानि तेभ्य इत्यर्थः, नानान्तराणि-यवमध्यादस्तिन्यः परभाविन्यश्च द्विगुणवृद्धिहानय इत्यर्थः, असङ्खथेयगुणानि । उक्त च-"हाणिदुगंतरठाणा थावर हाणी असंखगुण” त्ति । इह त्रसानां द्विगुणवृद्धिहानयः स्तोकाः, तेभ्य एकद्विगुणवृद्धिहान्यन्यतमस्थानापान्तरालवर्तीनि स्थानान्यसङ्खयेयगुणानि । स्थावराणां तु द्वयोर्द्विगुणवृद्ध्योदिगुणहान्योऽपान्तराले एकस्मिन् यानि स्थानानि तानि स्तोकानि, द्विगुणवृद्धिद्विगुणहानिस्थानानि पुनरसङ्खयेयगुणानि । कृता वृद्धिप्ररूपणा । अथ यवमध्यप्ररूपणा क्रियते-तत्र यवमध्यस्था