SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ पणा. तु द्वाभ्यां सातिरेकाभ्यां संख्येयभागाभ्यामभ्यधिकमवगन्तव्यम् । तृतीयं त्रिभिः सातिरेकैः, तुरीयं चतुर्भिः सातिरेकैः । एवं ताव-13 कर्मप्रकृतिः श द्वाच्यं यावदुत्कृष्टसंख्येयतुल्यान्यन्तराभावीनि मौलानि संख्येयभागवृद्धानि स्थानानि भवन्ति । एतावति चान्तराले यावन्ति स्थानानि | | अनुभागतावन्ति सर्वाण्यपि संख्येयभागवृद्धानि किं त्वेकेन स्थानेन न्यूनानि द्रष्टव्यानि, यत उत्कृष्टं संख्याततम संख्येयभागवृद्धं स्थानं ४ बन्धप्ररू| संख्येयगुणं भवतीति तन्नेह गृह्यते । तत्रेह यावन्त्यसंख्येयभागवृद्धानि स्थानान्यनन्तरमुक्तानि तावन्त्येकैकस्मिन्नन्तराभाविनां संख्येय-N भागवृद्धानां स्थानानामन्तरे प्राप्यन्ते । तानि चान्तराभावीनि (मौलानि) संख्येयभागवृद्धानि स्थानान्यत्राधिकारे उत्कृष्टसंख्यातक-१२ तुल्यानि गृह्यन्ते, केवलमेकमुत्कृष्टसंख्याततमं त्यज्यते, इत्यसंख्येयभागवृद्धेभ्यः स्थानेभ्यः संख्ययभागवृद्धानि स्थानानि संख्येयगु| णान्येव भवन्ति, प्राक्तनराशिप्रमाणानां तेषां संख्यातानामेवोत्तरोत्तरमभिवृद्धेः। तेभ्योऽपि संख्येयगुणवृद्धानि स्थानानि संख्येयगुणानि । | यतः प्रथमात्संख्येयभागवृद्धात्प्राक्तनं यदनन्तरं स्थानं तदपेक्षयोत्तराण्यन्तराभावीनि उत्कृष्टसंख्यातकतुल्यानि मौलानि संख्येयभाग-1 | वृद्धानि स्थानानि गत्वा चरमं स्थानं द्विगुणं साधिकं प्राप्यते। ततो भूयस्तावन्मात्राण्येव स्थानानि गत्वा चरमं स्थानं सातिरेकं त्रिगुणम्। एवमेव चतुर्गुणम् । एवं तावद्वाच्यं यावदुत्कृष्टसंख्येयगुणं भवति । ततः परमुत्कृष्टसंख्यातकतुल्यानि स्थानानि गत्वा चरमं यदेकेन गुणेन वृद्धमवाप्यते तज्जघन्यासंख्येयगुणं भवति, तन्न गृह्यते । ततोर्वाक् संख्येयभागवृद्धेभ्यः स्थानेभ्यः संख्येयगुणवृद्धानि स्थानानि संख्ये- | | यगुणान्येव भवन्ति । तथा चाह-'सङ्खयेयाख्येषु'-संख्येयनामसु संख्येयभागवृद्धसंख्येयगुणरूपेषु स्थानेषु, संख्येयगुणमिति क्रिया| विशेषणं, संख्येयगुणनया परम्परोपनिधा वाच्येत्यर्थः । तद्विपरीतमितरत' इत्यस्य विशेषनियमोऽयम् । तेभ्योऽपि संख्येयगुणवृद्धेभ्यः ||११०॥ स्थानेम्योऽसंख्येयगुणवृद्धानि स्थानान्यसंख्येयगुणानि । यत उत्कृष्टसंख्यातगुणवृद्धिपरिसमाप्तिभाविनो जघन्यासंख्येयगुणस्थानात् Disea
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy