________________
१४ गाधिकान्यसंख्येयगुणानि । तेभ्योऽप्यनन्तभागाधिकान्यसंख्येयगुणानि । गुणकारश्च सर्वत्र कण्डकं, उपरि चैकैककण्ड कपक्षपः ।।
एकैकासंख्येयगुणवृद्धादिस्थानस्याधस्तात्कण्डकमात्राणां संख्येयगुणवृद्धादिस्थानानामुपरि चैकैककण्डकस्य प्राप्तेः। कृताऽनन्तरोपनिधया-1 अल्पबहुत्वप्ररूपणा । संप्रति परम्परोपनिधया तां कुर्वन्नाह-'इतरतः'-इतरस्यां परम्परोपनिधायां तद्विपरीतम् , येन क्रमेणानन्तरोपनिधाया| मुक्तं ततो विपरीतं द्रष्टव्यं, इहादित आरम्य वक्तव्यमित्यर्थः। तथाहि-सर्वस्तोकान्यनन्तभागवृद्धानि स्थानानि, यस्मादाद्या-1 दनुभागवन्धस्थानादारभ्य तानि कण्डकमात्राण्येव प्राप्यन्ते, नाधिकानि । तेभ्योऽप्यसंख्येयभागवृद्धानि स्थानान्यसंख्येयगुणानि । यतः। प्रथममसंख्येयभागवृद्धं स्थानं पाश्चात्यकण्डकसत्कचरमस्थानापेक्षयाऽसंख्येयेन भागेनाधिकमिति। तत उपरितनमनन्तभागवृद्धं सतरां तथा। अनन्तभागवृद्धं हि तत्प्रथमासंख्येयभागवृद्धस्थानापेक्षया, अनन्तभागवृद्धकण्डकसत्कचरमस्थानापेक्षया त्वसंख्येयभागाधिकमेवेति । प्रथमादसंख्येयभागवृद्धास्थानादारभ्य प्रथमात्संख्येयभागस्थानादर्वागन्तरावर्तीनि सर्वाण्यपि स्थानानि विशेषतरतमभावेनासंख्येयभागवृद्धानि प्राप्यन्ते । ततोऽनन्तभागवृद्धेभ्योऽसंख्येयभागवृद्धान्यसंख्येयगुणानि । आनन्तर्येणानन्तभागवृद्धेऽपि परम्परागतमसंख्येयभागवृद्धत्वमाश्रितमित्ययं परम्परोपनिधावकाशः। एवमग्रेऽप्यूह्यम् । तेभ्योऽप्यसंख्येयभागवृद्धेभ्यः स्थानेभ्यः संख्येयभागवृद्धानि स्थानानि संख्येयगुणानि । कथम् ? इति चेद् , उच्यते-प्रथमे संख्यातभागवृद्धे स्थाने पाश्चात्यमनन्तरं स्थानमधिकृत्य संख्येयभागवृद्धिः प्राप्यते. तद्यदि प्रथमेऽपि संख्येयभागवृद्धे स्थाने संख्येयभागवृद्धिस्तदा तत उत्तरेषामनन्तभागवृद्धासंख्येयभागवृद्धानां सुतरां संख्येयभागवृद्धिः। यतोऽनन्तभागवृद्धिरसंख्येयभागवृद्धिर्वा पूर्वपूर्वानन्तरस्थानापेक्षया, प्रथमसंख्येयभागवृद्धस्थानात्माक्तनमनन्तरं स्थानं प्रतीत्य तु सवि| शेषसविशेषतरसंख्येयभागवृद्धिरेव सा । इयं च मौलद्वितीयसंख्येयभागाधिकस्थानादग्विाच्या। द्वितीयं मौलं संख्येयभागाधिकं स्थानं )