SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ||१०९॥ पणा. स्थानात् पराणि सर्वाण्यप्यनन्तभागवृद्धासंख्येयभागवृद्धसंख्येयभागवृद्धसंख्येयगुणवृद्धासंख्येयगुणवृद्धानि स्थानान्यसंख्येयगुणानि प्राप्य|न्ते, ततः संख्येयगुणवृद्धेभ्यः स्थानेभ्योऽसंख्येयगुणवृद्धानि स्थानानि असंख्येयगुणानि भवन्ति । तेभ्योऽप्यनन्तगुणवृद्धानि स्था- | अनुभाग बन्धप्ररू| नान्यसंख्येयगुणानि । कथम् ? इति चेद् , उच्यते-इह प्रथमादनन्तगुणवृद्धात् स्थानादारभ्य यावत् षट्स्थानकपरिसमाप्तिस्तावत् सर्वाण्य| पि स्थानानि अनन्तगुणवृद्धानि । तथाहि-यदि प्रथममनन्तगुणवृद्धं स्थानं पाश्चात्यमनन्तरस्थानमधिकृत्यानन्तगुणाधिकं जातं तत उत्तराणि अनन्तभागवृद्धवादीनि स्थानानि तदपेक्षया सुतरामनन्तगुणवृद्धानि भवन्ति । यावन्ति च स्थानानि प्रागतिक्रान्तानि तावन्ति | एकैकस्मिन्ननन्तगुणवृद्धानामन्तरान्तराभाविनां स्थानानामन्तरे भवन्ति । कण्डकमात्राणि च तान्यन्तराणि । ततः प्रागुक्तेभ्योऽसंख्येय| गुणवृद्धेभ्यः स्थानेभ्योऽनन्तगुणवृद्धानि स्थानान्यसंख्येयगुणानि भवन्तीति ॥ ४३ ॥ ___(उ०)-अथाल्पबहुत्वप्ररूपणार्थमाह-इह द्विधाऽल्पबहुत्वप्ररूपणा-अनन्तरोपनिधया, परम्परोपनिधया च । तत्रानन्तरत इत्येक-|| स्मिन् षट्स्थानकेऽन्तिमस्थानादारभ्य पश्चानुपूर्व्याऽनन्तरोपनिधया प्ररूपणायामनन्तगुणादीन्यनन्तगुणवृद्धानि स्थानान्यादौ कृत्वा शेषाण्यसंख्येयगुणितानि वक्तव्यानि। तथाहि-सर्वस्तोकान्यनन्तगुणवृद्धानि स्थानानि, कण्डकमात्रत्वात्तेषाम् । तेभ्योऽसंख्येयगुणवृद्धानि | स्थानान्यसंख्येयगुणानि । को गुणकारः१-कथ्यते-कण्डकं, तदुपरि चैकं कण्डकं प्रक्षिप्यते । यत एकैकस्यानन्तगुणवृद्धस्य स्थानस्याधस्तादसंख्येयगुणवृद्धानि स्थानानि कण्डकमात्राणि प्राप्यन्ते, तेन कण्डकं गुणकारः। अनन्तगुणवृद्धस्थानकण्डकस्योपरि च कण्डकमात्रा-1) ण्यसंख्येयगुणवृद्धानि स्थानानि प्राप्यन्ते,न त्वनन्तगुणवृद्धस्थानम् । तेनोपरितनकण्डकस्याधिकस्य प्रक्षेपः। तेभ्योऽप्यसंख्येयगुणवृद्धेभ्यः ||१०९|| स्थानेभ्यः संख्येयगुणवृद्धानि स्थानान्यसंख्येयगुणानि। तेभ्योऽपि संख्येयभागाधिकानि स्थानान्यसंख्येयगुणानि । तेभ्योऽप्यसंख्येयभा DISCRIOSIPISORSMORN
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy