________________
न भवति । द्वितीयं मौलं संख्येयभागाधिकं स्थानं द्वाभ्यां सातिरेकाभ्यां संख्येयभागाभ्यामधिकमवगन्तव्यम् । तृतीयं त्रिभिः सातिरेकैः, चतुर्थ चतुर्भिः सातिरेकैः । एवं तावद्वाच्यं यावदुत्कुष्टसंख्येयतुल्यान्यन्तरान्तराभावीनि मौलानि संख्येयभागवृद्धानि स्थानानि भवन्ति । एतावन्ति चान्तराले यावन्ति स्थानानि तावन्ति सर्वाण्यपि संख्येयभागबृद्धानि स्थानानि किं त्वेकेन मन्तिमेन स्थानेन न्यूनानि द्रष्टव्यानि । यत उत्कृष्टसंख्याततम संख्येयभागवृद्धं स्थानं संख्येयगुणं भवति, द्विगुणत्वात् , ततस्तत्परित्यज्यते । तत्रेह यावन्ति असंख्येयभागवृद्धानि स्थानान्यनन्तरमुक्तानि तावन्ति एकैकस्मिन्नन्तरान्तराभाविनां संख्येयभागवृद्धानां स्थानानामन्तरे प्राप्यन्ते, तानि चान्तरान्तराभावीनि मौलानि संख्येयभागवृद्धानि स्थानानि प्रस्तुतचिन्तायामुत्कृष्टसंख्यातकतुल्यानि गृह्यन्ते, तदेवक | सर्वान्तिम संख्येयभागवृद्धं परित्यज्यते, ततोऽसंख्येयभागवृद्धेभ्यः स्थानेभ्यः संख्येयभागवृद्धानि स्थानानि संख्येयगुणान्येव भवन्ति । ५ तेभ्योऽपि संख्येयगुणवृद्धानि स्थानानि संख्येयगुणानि । कथम् ? इति चेद् , उच्यते-प्रथमात्संख्येयभागवृद्धात् स्थानात्प्राक्तनं यदनन्तरं
स्थानं तदधिकृत्योत्तराणि अन्तरान्तराभावीनि मौलानि संख्येयभागवृद्धानि स्थानानि उत्कृष्टसंख्यातकतुल्यानि गत्वा चरमं स्थानं | दिगणं साधिकमुपलब्धम् । ततः पुनरपि तावन्मात्राण्येव स्थानानि गत्वा चरमं स्थानं सातिरेकं त्रिगुणम् । एवमेव चतुर्गणम् । एवं तावद्वा-15 ४ाच्यं यावदुत्कृष्टसंख्येयगुणं भवति । ततः पुनरप्युत्कृष्टसंख्यातकतुल्यानि स्थानानि गत्वा चरमं यदेकेन गुणेन वृद्धं भवति तजघन्यसंख्थेनयगुणं भवति । तस्मात्संख्येयभागवृद्धेभ्यः स्थानेभ्यः संख्येयगुणवृद्धानि स्थानानि संख्येयगुणान्येव भवन्ति, तथा चाह-'संखेजक्खेसा
संखगुणं' । संख्येयाख्येपु-संख्येयभागवृद्धसंख्येयगुणरूपेषु स्थानेषु 'संख्येयगुणं'-संख्येयगुणता वक्तव्या । तेभ्योऽपि संख्येयगुणवृद्धेभ्यः स्थानेभ्योऽसंख्येयगुणवृद्धानि स्थानानि असंख्येयगुणानि। कथम्? इति चेद् ,उच्यते-इह यतः प्रागुक्तादनन्तराजघन्यासंख्येयगुणात