SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ पणा. | निधया तां कुर्वन्नाह-'तविवरीयमियरओ' ति । इतरतः-इतरस्यां परम्परोपनिधायां तद्विपरीतं,येन क्रमेणोक्तमनन्तरोपनिधायां तद्वि- २ कर्मप्रकृतिः परीतं द्रष्टव्यम् , इहादित आरभ्य वक्तव्यमित्यर्थः । तथाहि-सर्वस्तोकानि अनन्तभागवृद्धानि स्थानानि, यस्मादाद्यानुभागबन्धस्था- अनुभाग||१०८॥ नादारभ्यानन्तभागवृद्धानि स्थानानि कण्डकमात्राण्येव प्राप्यन्ते, नाधिकानि। तेभ्योऽप्यसंख्येयभागवृद्धानि स्थानानि असंख्येयगुणानि। बन्धप्ररूकथम् ? इति चेद् , उच्यते-अनन्तभागवृद्धकण्डकादुपरितनं प्रथममसंख्येयभागवृद्धस्थानं यदि पाश्चात्यकण्डकसत्कचरमस्थानापेक्षयाऽसं-18 ख्येयेन भागेनाधिकं तत उपरितनमनन्तभागवृद्धं स्थानं तदपेक्षया सुतरामसंख्येयभागवृद्धं भवति। अनन्तभागवृद्धं हि तत्पथमासंख्ये-15 यभागवृद्धस्थानापेक्षया, अनन्तभागवृद्धकण्डकसत्कचरमस्थानापेक्षया त्वसंख्येयभागाधिकमेव, तत उपरितनानि स्थानानि विशेषतो विशेषतरतोऽसंख्येयभागाधिकानि तावद् द्रष्टव्यानि यावत्संख्येयभागाधिकं स्थानं न भवति । तदेवं यतः प्रथमादसंख्येयभागवृद्धात | स्थानादारभ्य प्रथमात् संख्येयभागवृद्धात् स्थानादगिपान्तराले यानि स्थानानि तानि सर्वाण्यप्यसंख्येयभागवृद्धानि प्राप्यन्ते । तस्मादनन्तभागवृद्धेभ्यः स्थानेभ्योऽसंख्येयभागवृद्धानि स्थानान्यसंख्येयगुणानि भवन्ति । तेभ्योऽपि संख्येयभागवृद्धानि स्थानानि |TA संख्येयगुणानि । कुत एतदवसीयते ? इति चेद् , उच्यते-प्रथमे संख्येयभागवृद्धे स्थाने पाश्चात्यमनन्तरस्थानमधिकृत्य संख्येयभागवृद्धिः प्राप्यते । तद्यदि प्रथमेऽपि संख्येयभागवृद्ध स्थाने संख्येयभागवृद्धिः प्राप्ता तर्हि ततः प्रथमात् स्थानादुत्तरेषामनन्तभागवृद्धा-11) संख्येयभागवृद्धवानां स्थानानां सुतरां संख्येयभागवृद्धिर्भवति । यतोऽनन्तभागवृद्धिरसंख्येयभागवृद्धिर्वा पूर्वपूर्वानन्तरस्थानापेक्षया । ||१०८|| | प्रथमसंख्येयभागवृद्धात्पुनः प्राक्तनमनन्तरं स्थानमधिकृत्य सर्वाण्यप्यनन्तभागवृद्धानि असंख्येयभागवृद्धानि च स्थानानि यथोत्तरं । है| सविशेषसविशेषतरं संख्येयभागवृद्धानि भवन्ति । सविशेषतरसंख्येयभागवृद्धिश्च तावद्वक्तव्या यावन्मौलं द्वितीयं संख्येयभागाधिकं स्थान ||
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy