________________
दद
परूविता ॥ ४३॥
(मलय०)-सम्प्रत्यल्पबहुत्वप्ररूपणार्थमाह-'अप्पे'ति । इह द्विधाऽल्पबहुत्वप्ररूपणा-अनन्तरोपनिधया परम्परोपनिधया च । तत्र कस्मिन् षट्स्थानकेन्तिमस्थानादारभ्य पश्चानुपूर्व्यानन्तरोपनिधया प्ररूपणा क्रियते-अनन्तगुणान्यनन्तगुणवृद्धानि स्थानान्यादौ कृत्वा शेषाण्यसंख्येयगुणितानि वक्तव्यानि । तद्यथा-सर्वस्तोकान्यनन्तगुणवृद्धानि स्थानानि, कण्डकमात्रत्वात्तेषाम् । तेभ्योऽसंख्येयगुणवृद्धानि स्थानान्यसंख्येयगुणानि । को गुणकारः ? भण्यते-कण्डकं एककण्डकप्रक्षेपश्च । कुत एतदवसीयते ? इति चेद् , उच्यते-इह यस्मादककस्यानन्तगुणवृद्धस्य स्थानस्याधस्तादसंख्येयगुणवृद्धानि स्थानानि कण्डकमात्राणि प्राप्यन्ते तेन कण्डकं गुणकारः । अनन्तगुणवृद्धस्थानकण्डकाच्चोपरि कण्डकमात्राण्यसंख्येयगुणवृद्धानि स्थानानि प्राप्यन्ते, न त्वनन्तगुणवृद्धस्थानम् , तेनोपरितनकण्डकस्याधिकस्य तत्र प्रक्षेपः । तेभ्योऽप्यसंख्येयगुणवृद्धेभ्यः स्थानेभ्यः संख्येयगुणवृद्धानि स्थानानि असंख्येयगुणानि । तेभ्योऽपि संख्येयभागाधिकानि स्थानान्य-17 संख्येयगुणानि । तेभ्योऽप्यसंख्येयभागाधिकानि स्थानान्यसंख्येयगुणानि । तेभ्योऽप्यनन्तभागवृद्धानि स्थानान्यसंख्येयगुणानि । गुण
कारश्च सर्वत्रापि कण्डकमुपरि चैककण्डकप्रक्षेपः । तथाहि-एकैकस्यासंख्येयगुणवृद्धस्य स्थानस्याधस्तात् संख्येयगुणवृद्धानि स्थानानि जाकण्डकमात्राणि प्राप्यन्ते तेन कण्डकं गुणकारः । असंख्येयगुणवृद्धकण्डकाच्चोपरि कण्डकमात्राणि संख्येयगुणवृद्धानि स्थानानि प्राप्य
न्ते तदनन्तरं त्वनन्तगुणवृद्धमेव स्थानं भवति, न त्वसंख्येयगुणवृद्धम् । प्रथमाच्चानन्तगुणवृद्धात् स्थानादक असंख्येयगुणवृद्धस्थानापेक्षया संख्येयगुणवृद्धानि स्थानानि चिन्त्यन्ते न तत ऊर्ध्वमपि । तेनोपर्येकस्यैव कण्डकस्याधिकस्य प्रक्षेपः । एवं संख्येयभागवृद्धादीनामपि स्थानानामसंख्येयगुणत्वे गुणकारभावना द्रष्टव्या । तदेवं कृताऽनन्तरोपनिधयाऽल्पबहुत्वप्ररूपणा । सम्प्रति परम्परोप