________________
कर्म प्रकृतिः
॥ ९८ ॥
स्थानादधः कियन्त्यनन्तभागवृद्धानि स्थानानि ? उच्यते - कण्डकवनो द्वौ कण्डकवर्गों कण्डकं च । एवं प्रथमादसंख्येय गुणवृद्धादधोऽसंख्येयभागवृद्धानि स्थानानि तावन्त्येव । प्रथमादनन्तगुणवृद्धस्थानादधः संख्ये य भागवृद्धस्थानान्यपि तावन्त्येवेत्यवसेयम् । काऽत्र भावना ? इति | चेद्, उच्यते - इह प्रथमात्संख्येयगुणवृद्धात्स्थानादध एकैकस्य संख्येयभागवृद्धस्थानस्याधः प्रत्येकमेकैककण्डकाधिकः कण्डकवर्गोऽनन्तभावृद्धानां स्थानानां प्राप्यते । संख्येयभागवृद्धानि च स्थानानि कण्डकमात्राणि । ततः कण्डकवर्गः कण्डकेन गुणितः कण्डकघनो भवति । क ण्डकं च कण्डकगुणितं कण्डकवर्गः । अन्त्यसंख्येय भागवृद्धाच्चोपरि कण्डकवर्ग एकं च कण्डकं प्राप्यते । ततो द्वयन्तरितमार्गणायाम| नन्तभागवृद्धानां कण्डकघनो द्वौ कण्डकवर्गावेकं च कण्डकं भवति । एवमग्रेऽप्यूह्यम् । एषा द्वयन्तरितमार्गणा । उक्तं च- "कंडं कंडस्स घणो वग्गो दुगुणो दुगंतराएओ" । प्रथमादसंख्येयगुणवृद्धात्स्थानादधः कियन्त्यनन्तभागवृद्धानि स्थानानि ? उच्यते - कण्डकवर्गवर्गस्त्रयः कण्डकघनास्त्रयः कण्डकवर्गा एकंच कण्डकम् । एवं प्रथादनन्त गुणवृद्धात्स्थानाद धोऽसंख्येयभागवृद्धानि स्थानान्यप्येतावन्त्येवेत्यवसेयम् । काऽत्र भावना ? इति चेद्, उच्यते-इह प्रथमादसंख्येयगुण वृद्धात्स्थानादध एकैकस्य संख्येयगुणवृद्धस्य स्थानस्याधः प्रत्येकमनन्तभागवृद्धानां स्थानानां कण्डकघनो द्वौ कण्डकवर्गावेकं च कण्डकं प्राप्यते । संख्येयगुणवृद्धानि च स्थानानि कण्डकमात्राणि । ततः कण्डकघनः कण्डकेन गुणितः कण्डकवर्गवर्गो भवति । तथाहि चतुष्कस्य घनश्चतुःषष्टिप्रमाणः, स चतुष्केण गुण्यते, ततो द्विशती पदपञ्चाशदधिका भवति, अयं चतुष्कस्य वर्गवर्गः, चतुष्कस्थानीयं चेह कण्डकं द्रष्टव्यमिति । द्वौ कण्डकवर्गों कण्डकेन गुणितौ द्वौ कण्डकघनौ भवतः, वर्गस्य वर्गमूलेन गुणने घनस्य निष्पत्तेः । कण्डकं च कण्डकेन गुणितं कण्डकवर्गः । संख्येयगुण वृद्धस्थानस्योपर्येकः कण्डकघनो द्वौ च कण्डकवर्गावेकं च कण्डकं प्राप्यते, तत्पूर्वराशौ प्रक्षेप्यं, ततख्यन्तरित मार्गणायामनन्तभागवृद्धानां स्थानानां कण्ड
AmaE SA
अनुभागबन्धप्ररूपणा.