SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ SSOCIAGNOSISGARCAR ४) संभवति तथाप्युपरितनेषु स्थानेषु अन्येष्वपि च द्वितीयादिपदस्थानेषु सर्वास्वपि च संयमश्रेण्यादिगतेषु संभवतीति न कश्चिद्विरोधः, बाह ल्येन सर्वत्रापि संभवात् । यद्यपि च पूर्वपूर्वस्थानापेक्षयोत्तरोत्तरस्थानेषु किश्चिद्धीनहीनतराः परमाणवः प्राप्यन्ते, तथापि तेषु | वर्गणादीनां स्तोकस्तोकतरः परमाणुभिनिष्पत्तरक्तस्वरूपं स्पर्द्धकबाहुल्यं न विरुध्यते । सर्वजीवप्रमाणराशिना भागहार इत्युपलक्षणमित्यागप्यनन्तगुणवृद्धात स्थानात् पूर्वपूर्वस्थानेभ्य उत्तरोत्तरस्थानानां सर्वस्तोकानन्तभागाधिकत्वमवसेयं सोपस्कारत्वात्मत्रस्येति । तदेवमुक्ता पदस्थानकप्ररूपणा । अथाधस्तनस्थानप्ररूपणा क्रियते-तत्र पञ्च मार्गणा आनन्तर्येणैकाद्यन्तरिता च । तत्र प्रथमादसंख्येयभागवृद्धस्थानादधः कियन्त्यनुभागबन्धस्थानान्यनन्तभागवृद्धानि ? उच्यते-कण्डकमात्राण्येव । प्रथमात्संख्येयभागवृद्धस्थानादधोऽसंख्येयभागवृद्धान्यपि तावन्त्येव । प्रथमात्संख्येयगुणवृद्धस्थानादधः संख्येयभागवृद्धान्यपि तावन्त्येव । प्रथमादसंख्येयगुणवृद्धस्थानादधः संख्येयगुणवृद्धान्यपि तावन्त्येव । तथा प्रथमादनन्तगुणवृद्धास्थानदधोऽसंख्येयगुणवृद्धान्यपि तावन्त्येवेत्यवसेयम् । एषोत्तरोत्तरस्थानादधोऽध आनन्तयेण मार्गणा । तदुक्तम्- 'सव्वासि वुड्ढीणं कंडकमेत्ता अणंतरा बुढी"। तथा प्रथमात्संख्येयभागवृद्धास्थानादधः कियन्त्यनन्तभागवृद्धानि स्थानानि ? उच्यते-कण्डकवर्गः कण्डकं च । एवं प्रथमात्संख्येयगुणवृद्धास्थानादधोऽसंख्येयभागवृद्धानि स्थानानि तावन्त्येव । तथा प्रथमादसंख्येयगुणवृद्धास्थानादधः संख्येयभागवृद्धानि स्थानानि तावन्त्येव । तथा प्रथमादनन्तगुणवृद्धा| स्थानादधः संख्येयगुणवृद्धानिस्थानानि तावन्त्येव । एषा एकान्तरिता मार्गणा। उक्तं च-"एगन्तरा बुड्ढी वग्गो कण्डस्स कडं च ।" विवक्षितप्रथमस्थानादनन्तराधस्तनस्थानानां कण्डकमात्राणां प्रत्येकमधस्तादधस्तनस्थानानि कण्डकमात्राणि प्राप्यन्ते इति कण्डकं कण्डकगुणितं कण्डकवों भवति, उपरि चैकं कण्डकमित्येकान्तरितमार्गणायां कण्डकवर्गः कण्डकं चेत्यस्य भावना। प्रथमात्संख्येयगुणवृद्धा DoraeGSHAROSAGE
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy