SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ | किं रसाविभागापेक्षया उत परमाण्वपेक्षया यद्वा स्पर्धकापेक्षया ? तत्र न तावद्रसाविभागापेक्षया, प्रथमस्थानात द्वितीयस्थानेऽपि रसाकर्मप्रकृतिः विभागानां संख्येयादिगुणनया प्राप्यमाणत्वात् । तथाहि-प्रथम स्थाने प्रथमे स्पर्धके प्रथमवर्गणायामनन्ता अपि रसाविभागाः किला- | अनुभाग बन्धप्ररू॥९५॥ | सत्कल्पनया सप्त, ततो द्वितीयस्यां वर्गणायामष्टौ, तृतीयस्यां नव, चतुर्थ्यां दश, इदमेकं स्पर्धकम् । इत ऊर्ध्व त्वेकोचरवृद्धया पणा. | रसाविभागा न प्राप्यन्ते, किन्तु सर्वजीवानन्तगुणाधिकाः । ते च किलासत्कल्पनया सप्तदश । एते च द्वितीयस्य स्पर्धकस्य प्रथमवर्ग णायाम् । ततो द्वितीयस्यां वर्गणायामष्टादश, तृतीयस्यामेकोनविंशतिः, चतुयां विंशतिः, इदं द्वितीयं स्पर्धकम् । ततः पुनरप्यत | ऊर्ध्वमेकोत्तरवृद्धया रसाविभागा न प्राप्यन्ते, किन्तु सर्वजीवानन्तगुणाधिकाः । ते च किलासत्कल्पनया सप्तविंशतिः । एते च तृती| यस्य स्पर्धकस्य प्रथमवर्गणायाम् । ततो द्वितीयस्यां वर्गणायामष्टाविंशतिः, तृतीयस्यामेकोनत्रिंशत्, चतुर्थी त्रिंशत् , इदं तु तृतीय | स्पर्धकम् । ततः पुनरप्यत ऊर्ध्वमेकोत्तरवृद्धया रसाविभागा न प्राप्यन्ते, किन्तु सर्वजीवानन्तगुणाभ्यधिकाः । ते च किलासत्कल्पनया | सप्तत्रिंशत् । एते चतुर्थस्य स्पर्धकस्य प्रथमवर्गणायाम् । ततो द्वितीयस्यां वर्गणायामष्टात्रिंशत् , तृतीयस्यामेकोनचत्वारिंशत् , चतुर्थ्यां चत्वारिंशत् , इदं चतुर्थ स्पर्धकम् । एतानि च किलासत्कल्पनया प्रथममनुभागबन्धस्थानम् । अत्र च रसाविभागाः सर्वसंख्यया षट्| सप्तत्यधिकानि त्रीणि शतानि । इत ऊर्ध्व त्वेकोत्तरवृद्धथा रसाविभागा न प्राप्यन्ते किन्तु सर्वजीवानन्तगुणाभ्यधिकाः। ते च किला सत्कल्पनया सप्तचत्वारिंशत् । एते च द्वितीयस्य स्थानस्य प्रथमस्पर्धकस्य प्रथमवर्गणायाम् , ततो द्वितीयस्यां वर्गणायामष्टचत्वारिंशत् , | तृतीयस्यामेकोनपञ्चाशत्, चतुर्थ्यां पञ्चाशत, इदं द्वितीय स्थाने प्रथमं स्पर्धकम् । इत ऊर्ध्व त्वेकोत्तरवृद्धया रसाविभागा न प्राप्यन्ते, |९५॥ है किन्तु सर्वजीवानन्तगुणाधिकाः । ते च किलासत्कल्पनया सप्तपञ्चाशत् । एते च द्वितीयस्थाने द्वितीयस्पर्धकस्य प्रथमवर्गणायाम् ।
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy