SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ SPPHONESSONSORDER ४ स च संख्येयम्य द्राव्यः । उनराम च त्रिसग वृद्धिषु 'गुणना गुणकारोन्नन्तामन्येयमंन्यपानां ययात्रा मेनपामर पत्रीवादीनाभव गन्तव्या । इदमुक्तं भवति-प्रथमस्यानुभागबन्धस्थानस्य सर्वजीवसंग्च्याप्रमाणेन गशिना भागे हुने मति यल्लम्य सोऽनन्तभाग इह ग्राह्यः, तेनाभ्यधिकं द्वितीयमनुभागस्थानम् । तस्यापि सर्वजीवसंख्याप्रमाणेन राशिना भागे हने सति यलब्धं तेनाभ्यधिकं तृतीयमनुभागबन्धस्थानम् । एवं यद्यदनुभागवन्धम्थानमनन्तभागवृद्धमुपलभ्यते तनत्पाश्चात्यस्य पाश्चात्यम्यानुभागवन्धम्थानम्य मर्वजीवयं-र ख्याप्रमाणेन राशिना भागे हृते मति यल्लभ्यते तेन नेनानन्ततमेन भागेनाभ्यधिकमवगन्तव्यम् । तथाऽसंग्व्येयभागाधिकं नाम पाश्चात्यस्यानुभागबन्धस्थानस्यासंख्येयलोकाकाशप्रदेशप्रमाणेन राशिना भागे हते सति यल्लभ्यते सोऽसंख्येयतमो भागः । तेनासंख्येयतमेन भागेनाभ्यधिकमसंख्येयभागाधिकं द्रष्टव्यम् । तथा संग्व्येयभागाधिकं नाम पाश्चात्यस्यानुभागबन्धस्थानस्य उत्कृष्टेन संख्ययन भागे हृते सति यल्लभ्यते स संख्येयतमो भागः, तेन संख्येयतमेन भागेनाभ्यधिकमवगन्तव्यम् । तथा संग्व्येयगुणवृद्धं नाम पाश्चात्यमनुभागबन्धस्थानमुत्कृष्टसंख्येयकप्रमाणेन राशिना गुण्यते, गुणिते च सति यावान् राशिर्भवति एतावत्प्रमाणमवगन्तव्यम् । तथाsसंख्येयगुणवृद्धं नाम पाश्चात्यमनुभागबन्धस्थानमसंख्येयलोकाकाशप्रदेशसंख्याप्रमाणेन राशिना गुण्यते, गुणिते च सति यावान राशिर्भवति तावत्प्रमाणमवसेयम् । एवमनन्तगुणवृद्धमपि भावनीयम् । प्रथमस्य पदस्थानकस्य परिसमाप्तौ सत्यामुपरि यदन्यदनुभागस्थानमुपजायतेऽनन्तभागवृद्धं तत् द्वितीयस्य पदस्थानकस्य प्रथममवगन्तव्यम् । तदपि च द्वितीयं पदस्थानकं पूर्वक्रमेण सकलमपि वक्तव्यम् । एवं शेषाण्यपि पदस्थानकानि वक्तव्यानि । तानि च तावद्वक्तव्यानि यावदसंख्येयलोकाकाशप्रदेशराशिप्रमाणानि भवन्ति । तथा चाह-'छट्ठाणमसंखिया लोगा' । अत्र कश्चित्प्रश्नयति-ननु प्रथमानुभागबन्धस्थानस्य सर्वजीवप्रमाणेन राशिना भागोऽपन्हियते
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy