________________
SSOCCOMHDS
कानि स्थानानि 'प्रथमस्य'-मूलभूतस्यानन्तभागवृद्धकण्डकस्य 'समानि'-तुल्यानि भवन्ति । ततः पूर्वपरिपाटया पुनरप्यसंख्येयगुणाधिकस्थानप्रसङ्गे 'अनन्तगुणितं'-अनन्तगुणाधिकं स्थानमेकं वक्तव्यम् । ततो मूलत आरभ्य यानि अनुभागबन्धस्थानानि अतीतानि तानि भूयोऽप्यतिक्रम्य गत्वा द्वितीयमनन्तगुणाधिकं स्थानं वक्तव्यम् । एवं तान्यप्यनन्तगुणाधिकानि स्थानानि तावद्वक्तव्यानि
यावत्प्रथमस्थानन्तभागवृद्धस्थानकण्डकस्य तुल्यानि भवन्ति । ततः पूर्वपरिपाटया पश्चकवृद्ध्यनन्तरं पुनरप्यनन्तगुणाधिकं स्थानमुत्पद्यते है कि वा न ? इति चेत्, उच्यते-नोत्पद्यते, पदस्थानकस्य परिसमाप्तत्वात् । एतत् प्रथमं पदस्थानकम् ॥ ३५-३६॥
(उ०) इतः संख्येयगुणोत्तरादनुभागबन्धस्थानात् यावन्ति मूलत आरभ्य प्रागतिक्रान्तानि स्थानानि तावन्त्यतिक्रम्य द्वितीय संख्येयगुणाधिकं स्थानं वक्तव्यम् । अपिरेवमर्थे । एवं तानि सङ्ख्येयगुणाधिकानि स्थानानि तावद्वक्तव्यानि यावत्पथमस्यानन्तभागवृद्धस्थानकण्डकस्य तुल्यानि भवन्ति । ततः पूर्वपरिपाटया पुनः संख्येयगुणाधिकस्थानप्रसङ्गेऽसंख्येयगुणाधिकं स्थानमेकं वक्तव्यम् । ततो मलत आरभ्य यावन्त्यतीतानि तावन्ति भूयोऽप्यतिक्रम्य-गत्वा द्वितीयमसंख्येयगुणाधिकं स्थानं वक्तव्यम् । तान्यप्यसंख्येयगुणाधिकानि स्थानानि प्रथमस्य-मूलभूतस्यानन्तभागवृद्धकण्डकस्य समानि-तुल्यानि भवन्ति । ततः पूर्वपरिपाट्या पुनरप्यसंख्येयगुणाधिकस्थानप्रसङ्गेऽनन्तगुणितम्-अनन्तगुणाधिकं स्थानमेकं वक्तव्यम् । 'तो' त्ति-ततो मूलत आरभ्य यान्यतीतानि तान्यतिक्रम्य द्वितीयमनन्तगु| णाधिकं स्थानं वक्तव्यम् । तान्यप्येवमनन्तगुणाधिकानि स्थानानि तावद्वक्तव्यानि यावत्प्रथमानन्तभागवृद्धस्थानकण्डकस्य तुल्यानि भव-| न्ति । ततः पूर्वपरिपाटथा पञ्चवृद्ध्यनन्तरं पुनरप्यनन्तगुणाधिकं स्थानं लभ्यते न वा? इति चेद् , उच्यते न लभ्यते, पदस्थानकस्य | परिसमाप्तत्वात् । एतत्पथमं पदस्थानकम् ॥ ३५-३६ ।।