________________
कर्मप्रकृति ॥९ ॥
न्ति पुनरपि तथैवाभिधाय पुनरप्येकं संख्येयभागाधिकं स्थानं वक्तव्यम् । अमृनि चैवं संख्येयभागाधिकानि स्थानानि तावद्वक्तव्यानि यावत्कण्डकमात्राणि भवन्ति । तत उक्तक्रमेण भूयोऽपि संख्येयभागाधिकस्थानप्रसङ्गे संख्येयगुणाधिकमेकं स्थानं वक्तव्यम् । ततः अनुभागपुनरपि मूलादारभ्य यावन्त्यनुभागवन्धस्थानानि प्रागतिक्रान्तानि तावन्ति तथैव वा यानि । ततः पुनरप्येकं संख्येयगुणाधिकं स्थानं / बन्धप्ररू
पणा. वक्तव्यम् । ततो भूयोऽपि मूलादारभ्य यावन्ति स्थानानि प्रागतिक्रान्तानि तावन्त्यनुभागबन्धस्थानानि तथैव वक्तव्यानि । ततः पुनरप्येक संख्येयगुणाधिकं स्थानं वक्तव्यम् । अमून्यप्येवं संख्येयगुणाधिकानि स्थानानि तावद्वक्तव्यानि यावत्कण्डकमात्राणि भवन्ति । ततः पूर्वपरिपाट्या पुनः संख्येयगुणाधिकस्थानप्रसङ्गेऽसंख्येयगुणाधिकं स्थानं वक्तव्यम् । ततः पुनरपि मूलादारभ्य यावन्त्यनुभाग-1 बन्धस्थानानि प्रागतिक्रान्तानि तावन्ति तथैव पुनरपि वाच्यानि । ततः पुनरप्येकमसंख्येयगुणाधिकं स्थानं वक्तव्यम् । ततो भूयोऽपि | मूलादारभ्य तावन्त्यनुभागबन्धस्थानानि वक्तव्यानि । ततः पुनरप्येकमसंख्येयगुणाधिकं स्थानं वक्तव्यम् । अमूनि चैवमसंख्येयगुणाधिकानि स्थानानि तावद्वाच्यानि यावत्कण्डकमात्राणि भवन्ति । ततः पूर्वपरिपाटया पुनरप्यसंख्येयगुणाधिकस्थानप्रसङ्गेऽनन्तगुणाधिक स्थानं वक्तव्यम् । ततः पुनरपि मूलादारभ्य यावन्त्यनुभागवन्धस्थानानि प्रागभिहितानि तावन्ति पुनरपि तथैव वाच्यानि । ततो भूयोऽप्येकमनन्तगुणाधिकं स्थानं वक्तव्यम् । ततो भूयोपि मूलादारभ्य तावन्ति स्थानानि तथव वक्तव्यानि । ततः पुनरप्येकमनन्तगुणाधिकं स्थानं वक्तव्यम् । एवमनन्तगुणाधिकानि स्थानानि तावद्वक्तव्यानि यावत्कण्डकमात्राणि भवन्ति इति ॥ ३२॥ (उ०)-कृता स्थानप्ररूपणा । अथ कण्डकप्ररूपणार्थमाह-इतः प्रथमस्थानादारभ्य द्वितीयस्थानादर्वागन्तरं अन्तरतुल्यं-प्रागुक्त-16
॥९॥ प्रमाणान्तस्तुल्यं द्रष्टव्यम् । यथा प्रथमस्पर्द्धकचरमवर्गणाया द्वितीयस्पर्द्धकप्रथमवर्गणायाश्चान्तरं सर्वजीवानन्तगुणमुक्तं तथा प्रथमस्था-1