SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ होति । एवं एक्कं कंडगं ॥ ३२॥ (मलय०)-कृता स्थानप्ररूपणा । कण्डकप्ररूपणार्थमाह-'एत्तो'त्ति । इतः प्रथमस्थानादारभ्य द्वितीयस्थानादर्वाक् अन्तरमन्तरतुल्यंप्रागुक्तप्रमाणान्तरतुल्यं द्रष्टव्यम् । इदमुक्तं भवति-यथा प्रथमस्पर्धकचरमवर्गणाया द्वितीयस्पर्धकादिवर्गणायाश्वान्तरं सर्वजीवेभ्योऽनन्तगुणं समुद्दिष्टम् , एवमिहापि प्रथमस्थानान्तिमस्पर्धकचरमवर्गणाया द्वितीयस्थानाद्यस्पर्धकप्रथमवर्गणायाश्चान्तरं सर्वजीवेभ्योऽनन्तगुणमवगन्तव्यम् । तच्च द्वितीयस्थानं स्पधकापेक्षयाऽनन्तभागोत्तरम्-अनन्तभागवृद्धम् । यावन्ति प्रथम स्थाने स्पर्धकानि तावमोऽनन्तभागाधिकानि द्वितीय स्थाने स्पर्धकान्यवसेयानीत्यर्थः । एवं यथोत्तरमनन्तभागवृद्धान्युपदर्शितप्रकारेण स्थानानि तावद्वाच्यानि यावदलासंख्येयभागगताकाशप्रदेशराशिप्रमाणानि भवन्ति । एतेषां च समुदाय एक कण्डकम् । 'अणंतभागुत्तरंति-अनन्तभागोत्तरं अनन्तभागोत्तरस्थानसमुदायरूपत्वात्कण्डकमप्यनन्तभागोत्तरमुक्तम् । एषा कण्डकारूपणा । सम्प्रति पदस्थानप्ररूपणा क्रियते-तस्मात् प्रथमात् कण्डकात् परं यदन्यदनुभागबन्धस्थानं भवति तत्स्पर्धकापेक्षयाऽसंख्येयभागाधिकम् । तस्मात्पराणि तु कण्डकमात्राणि स्थानानि यथोत्तरमनन्तभागवृद्धानि । ततः परं पुनरप्येकमन्यदनुभागबन्धस्थानमसंख्येयभागाधिकम् । ततः पुनरपि कण्डकमात्राणि स्थानानि य थोत्तरमनन्तभागवृद्धानि । ततो भूयोऽप्येकमसंख्येयभागाधिकं स्थानम् । एवमनन्तभागाधिकैः कण्डकप्रमाणः स्थानैर्व्यवहितान्यसंख्ये| यभागाधिकानि स्थानानि तावद्वक्तव्यानि यावत्तान्यपि कण्डकमात्राणि भवन्ति । कण्डकं च समयपरिभाषयाऽङ्गुलमात्रक्षेत्रासंख्येयभागगताकाशप्रदेशराशिसंख्याप्रमाणमभिधीयते । ततश्चरमादसंख्येयभागाधिकात् स्थानात् पराणि यथोत्तरमनन्तभागवृद्धानि कण्डकमात्राणि स्थानानि वाच्यानि । ततः संख्येयभागाधिकमेकं स्थानं वक्तव्यम् । ततो मृलादारभ्य यावन्ति स्थानानि प्रागतिक्रान्तानि ताव
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy