________________
G
पणा.
शेषाधिकाः शुभाध्यवसायाः। तत्र शुभेनाशुभेन वा एकेन केनचिदध्यवसायेन 'स्वप्रत्ययत' इति स्वस्थान्मनः संबन्धिनाऽनुभागवन्धं कर्मप्रकृतिः पति प्रत्ययेन प्रत्ययभूतेन कारणभृतेन जीवो 'ग्रहणसमये योग्यपुद्गलादानसमये 'सर्वेषु कर्मप्रदेशेषु' एकैकस्मिन् कर्मपरमाणावित्य- अनुभाग
बन्धपरूपार्थः 'गुणान्' रसस्य निर्विभागान् भागानुक्तस्वरूपान् सर्वजीवेभ्योऽनन्तगुणानुत्पादयति । इयमत्र भावना-इह कर्मप्रायोग्यवर्गणान्तः
पातिनः सन्तः कर्मपरमाणवो न तथाविधविशिष्टरसोपेता आसीरन् , किन्तु प्रायो नीरसा एकस्वरूपाश्च । यदा तु जीवेन गृह्यन्ते, तदाKनी ग्रहणसमये एव तेषां काषायिकेणाध्यवसायेन सर्वजीवेभ्योऽप्यनन्तगुणा रसाविभागा आपद्यन्ते, ज्ञानावरकत्वादिविचित्रस्वभाव-S) पता च, अचिन्त्यत्वात् जीवानां पुद्गलानां च शक्तः । न चैतदनुपपन्नम् , तथा दर्शनात् । तथाहि-शुष्कतृणादिपरमाणवोऽत्यन्तनीरसा
| अपि गवादिभिगृहीत्वा विशिष्टक्षीरादिरसरूपतया च परिणम्यन्ते इति ।। २९ ॥ I (उ०)-तदेवमुक्तौ प्रकृतिप्रदेशबन्धौ, सम्प्रति स्थित्यनुभागबन्धप्ररूपणावसरः । तत्र बहुवक्तव्यत्वात् बहुवक्तव्यज्ञानेऽल्पवक्तव्यस्य सुज्ञानत्वसंभवात्तादृशशिष्येच्छानुरोधेन प्रथमतोऽनुभागबन्धस्यैव प्ररूपणा क्रियते-तत्र चतुर्दशानुयोगद्वाराणि-अविभागप्ररू-TEX पणा १, वर्गणाप्ररूपणा २, स्पर्धकारूपणा ३, अन्तरप्ररूपणा ४, स्थानप्ररूपणा ५, कण्डकारूपणा ६, षट्स्थानकप्ररूपणा ७, अध-| स्तनस्थानप्ररूपणा ८, वृद्धिप्ररूपणा ९, समयप्ररूपणा १०, यवमध्यप्ररूपणा ११. ओजोयुग्मप्ररूपणा १२, पर्यवसानप्ररूपणा १३,
अल्पबहुत्वप्ररूपणा चेति १४ । तत्रादाबविभागप्ररूपणां कुर्वन्नाह-इहानुभागस्य हेतवः काषायिका अध्यवसायाः 'ठिइअणुमार्ग कसा-1 | यओ कुणइति वचनात् । ते च द्विधा-शुभा अशुभाश्च । उभयेऽपि प्रत्येकमसंख्येयलोकाकाशप्रदेशप्रमाणाः,केवलं शुभा विशेषाधिकाः, | सोपानारोहणावतरणतुल्यानामुभयेषां साम्येऽपि येष्वध्यवसायेषु वर्तमानः क्षपकः श्रेणिमारोहति तेभ्यः प्रतिपातो नास्तीति शुभानाम
ODDER ROADS
ISIOTICEROSPIONS