________________
SMGODSON
हीतो अणुभागो भवति, सा य संकिलेसविसोही जीवस्स 'सव्वजीयाणंतगुणे'त्ति-सव्वजीवाणंतगुणे, 'कम्मपदेसेसु सब्वेसुत्ति-सब्वेसु कम्मप्पदेसेसु एक्किक्के कम्मपएसे सव्वजीवाणं अणतगुणे रसअविभागपलिच्छेदे उप्पादेति भणितं होति ॥२९॥ | (मलय०) तदेवमुक्तौ प्रकृतिप्रदेशबन्धौ, सम्प्रति स्थित्यनुभागबन्धप्ररूपणावसरः, तत्र बहुवक्तव्यत्वात् प्रथमतोऽनुभागबन्धस्यैव प्ररूपणा क्रियते, तत्र चतुर्दशानुयोगद्वाराणि, तद्यथा-अविभागप्ररूपणा १, वर्गणाप्ररूपणा २, स्पर्धकप्ररूपणा ३, अन्तरप्ररूपणा ४, स्थानप्ररूपणा ५, कण्डकारूपणा ६, षट्स्थानप्ररूपणा ७, अधस्तनस्थानप्ररूपणा ८,वृद्धिपरूपणा ९, समयमरूपणा १०, यवमध्यप्ररूपणा ११, ओजोयुग्मप्ररूपणा १२, पर्यवसानप्ररूपणा १३, अल्पबहुत्वप्ररूपणा १४ । तत्राविभागप्ररूपणार्थमाह-'गहणे'ति । इहानुभा| गस्य कारणं काषायिका अध्यवसायाः, "ठिइअणुभागं कसायओ कुणइ" इति वचनात् , ते च द्विधा-शुभा अशुभाथ, तत्र शुभैः क्षीरखण्डरसोपममाहादजननभागं कर्मपुद्गलानामाधत्ते, निम्बघोषातकीरसोपमं चाशुभैः । ते च शुभा अशुभा वा कापायिका अध्यवसायाः | प्रत्येकमसंख्येयलोकाकाशप्रदेशप्रमाणाः, केवलं शुभा विशेषाधिका द्रष्टव्याः, तथाहि-यानेवानुभागबन्धाध्यवसायान् क्रमशः स्थापितान् संक्लिश्यमानः क्रमेणाधोऽध आस्कन्दति तानेव विशुध्यमानः क्रमेणो;र्ध्वमारोहति, ततो यथा प्रसादादवतरतो यावन्ति सोपानस्थानानि भवन्ति तावन्त्येवारोहतोऽपि, तथाऽत्रापि यावन्त एव संक्लिश्यमानस्याशुभाध्यवसायास्तावन्त एव विशुध्यमानस्यापि शुभाध्यवसायाः । उक्तं च-"क्रमशः स्थितासु काषायिकीषु जीवस्य भावपरिणतिषु । अवपतनोत्पतनाद्धे संक्लेशाद्धाविशोध्यद्धे ।।" केवलं क्षपको येष्वध्यवसायेषु वर्तमानः क्षपकश्रेणिमारोहति, तेभ्यः पुनर्न निवर्तते तस्य प्रतिपाताभावात् , अतस्तेऽधिका इति तदपेक्षया वि