SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ त्वादिना तस्योत्कृष्टयोगस्थानासंभवात् । अन्यथा मिथ्यात्वभागलाभेनानन्तानुबन्धिनामुन्कृष्टप्रदेशबन्धः सासादन एव लभ्येतेति तेषा-151 मनुत्कृष्टप्रदेशबन्धः साद्यादिरूपतया चतुर्विधः स्याद् , न चैतदिष्टं, साद्यधुवतयैव तस्य प्रागभिधानात् । शेषप्रकृतीनां मिथ्यादृष्टिरेव | चोत्कृष्टप्रदेशबन्धस्वामी वाच्य इत्यतोऽपि न मासादनस्योत्कृष्टयोगसंभव इति न तद्ग्रहणम् । साम्वादनसम्यग्मिध्यादृष्टी विना मिथ्यादृष्ट्याद्या अनिवृत्तिबादरान्ताः सप्तविधवन्धका मोहनीयम्योत्कृष्टप्रदेशबन्धवामिनः, सर्वेषामप्येतेषामुत्कृष्टयोगस्थानस्य मोहनीयबन्धस्य च लभ्यमानत्वात् । सासादनसम्यग्मिध्यादृष्टी कस्मात्यक्ताविति चेत्तयोरुत्कृष्टयोगाभावात् । तत्र सासादनस्योत्कृष्टयोगाभावे यक्तिरुक्कैव । मिश्रेऽप्युत्कृष्टयोगाभ्युपगमे तत्र द्वितीयकषायाणामुत्कृष्टप्रदेशबन्धाभ्युपगमप्रसङ्गः, न चैतदिप्यते, तदुत्कृष्टप्रदेशबन्धस्वामिनोऽविरतसम्यग्दृष्टेरेवाभिधास्यमानत्वात् , नच मिश्रादल्पतरप्रकृतिबन्धकोऽविरतसम्यग्दृष्टिरिति तस्यैव तथाभिधास्यमानत्वं | युक्त, मूलप्रकृत्यपेक्षया सप्तविधबन्धकत्वस्योत्तरप्रकृत्यपेक्षया च सप्तदशमोहनीयप्रकृतिबन्धकत्वस्योभयोरविशेषात । तस्मादुत्कृष्टयोगाभाव एव मिश्रपरित्यागे कारणमिति केचिदन्थकृतः समादधते । मलयगिरिचरणास्तु सम्यग्मिथ्यादृष्टेरुत्कृष्टयोगस्थानहीनत्वे "सासाणसम्मामीच्छेसुक्कोसो जोगो न हवइत्ति पूर्वाचार्यवचनमेव प्रमाणमाहुः। मिश्रस्य व्यञ्जनावग्रहप्रख्यत्वान्न तत्रोत्कृष्टप्रदेशबन्ध इत्यपि युक्तमीक्षामहे । ज्ञानावरणदर्शनावरणवेदनीयनामगोत्रान्तरायाणामुत्कृष्टयोगस्थानवर्ती सूक्ष्मसंपराय उत्कृष्टप्रदेशबन्ध| स्वामी, आयुर्मोहनीयभागयोरपि तत्र लभ्यमानत्वात् । एतन्मूलप्रकृतिविषयमुत्कृष्टप्रदेशबन्धस्वामित्वं भावितम् । अथोत्तरप्रकृतिविषयं सद्भाव्यते-तत्र ज्ञानावरणपश्चकदर्शनावरणचतुष्टयसातवेदनीययशःकीयुचैर्गोत्रान्तरायपञ्चकलक्षणानां सप्तदशप्रकृतीनां सूक्ष्मसंपराय | उत्कृष्टयोगे वर्तमान उत्कृष्टप्रदेशबन्धस्वामी । मोहायुषी असौ न बध्नातीति तद्भागोवाधिको लभ्यते, दर्शनावरणभागो नामभागश्च
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy