________________
कर्मप्रकृतिः
॥ ८२॥
कदम
प्रदेशबन्धः। स चैवं संज्वलनचतुष्कस्योत्कृष्टः प्रदेशबन्धः प्रतिनियतकालभावित्वात्सायध्रुवः, ततोऽन्यः सर्वोप्यनुत्कृष्टः। स | चोत्कृष्टप्रदेशबन्धस्थानात्मतिपततो बन्धव्यवच्छेदस्थानमारुह्य वा प्रतिपततो मन्दपरिणामस्य सादिः, अप्राप्ततत्स्थानस्यानादिः,
देशबन्धेध्रुवाध्रुवौ प्राग्वत् । एतासामेव त्रिंशत्प्रकृतीनां जघन्याजघन्योत्कृष्टाः साद्यधुवाः, तत्रोत्कृष्टः साद्यध्रुवतयाऽन्तराल एव भावितः । जघ
साद्यादिप्र
रूपणा. न्याजघन्ययोः सायध्रुवता तु प्रागुक्तनिगोदावस्थामधिकृत्य भावनीया। शेषाणां तु मिथ्यात्वानन्तानुबन्धिस्त्यानद्धिविकागुरुलघुतैजसकार्मणोपघातवर्णादिचतुष्टयनिर्माणरूपाणां सप्तदशध्रुवबन्धिप्रकृतीनां जघन्यादयश्चत्वारोऽपि साद्यधुवाः । तथाहि-स्त्यानदित्रिकमिध्यात्वानन्तानुबन्धिनां मिथ्यादृष्टेः सप्तविधबन्धकस्योत्कृष्टयोगस्थानवर्तिनः समयमेकं द्वौ वा समयौ यावदुत्कृष्टः प्रदेशबन्धः । सम्यग्दृष्टरेताः प्रकृतयो बन्धमेव नायान्तीति मिथ्यादृष्टिग्रहणम् । उत्कृष्टाच्च प्रतिपतितस्यानुत्कृष्टः। ततो भूयोऽपि समयान्तरे उत्कृष्ट इति द्वावपि साद्यध्रुवौ । तैजसकार्मणागुरुलघूपघातवर्णादिचतुष्टयनिर्माणरूपाणां नामध्रुवबन्धिनीनां नवानां प्रकृतीनां त्रयोविंशतिबन्धकस्य मिथ्यादृष्टेरुत्कृष्टयोगस्थानवर्तिनः समयमेकं द्वौ वा समयावुत्कृष्टः प्रदेशबन्धः, अन्यस्याऽऽसामुत्कृष्टप्रदेशबन्धासंभवात् केवलज्ञानिना तथैव दृष्टत्वात्, ततः समयान्तरेऽनुत्कृष्टो, भूयोऽपि कालान्तरे उत्कृष्ट इति द्वावपि साद्यध्रुवौ । जघन्याजघन्यभावना तु पाम्वत् । अध्रुवब-16 धिनीनां चाध्रुवबन्धित्वादेव चत्वारोऽपि विकल्पाः साद्यधुवा इति सर्व मुस्थम् । स्वामित्वरूपणा च द्विविधा-उत्कृष्टप्रदेशविषया, जधन्यप्रदेशविषया च। तत्राल्पतरप्रकृतिबन्ध उत्कृष्टयोगश्च संज्ञिपर्याप्त उत्कृष्टप्रदेशबन्धकः,अल्पतरप्रकृतिबन्धे भागानामल्पत्वात् उत्कृष्ट-13 | योगत्वे च बहुप्रदेशग्रहणात् ,एतद्विपर्यये जघन्यप्रदेशबन्धकः। तत्रायुषो मिथ्यादृष्टिरयताद्याश्च चत्वार उत्कृष्टप्रदेशबन्धस्वामिनः, सर्वेषामे-10/॥८॥ तेषामुत्कृष्टयोगस्थानस्यायुर्वन्धस्य च लभ्यमानत्वात् । सासादनः कस्मादुत्कृष्टप्रदेशबन्धस्वामी नेति चेद् , उच्यते-अल्पकालभावि-17