________________
DEOदद CRISex
| त्साद्यध्रुवः । ततः समयान्तरेऽनुत्कृष्टः, स च सादिः । बन्धव्यवच्छेदस्थानं गत्वा प्रतिपततो मन्दयोगस्थानस्य बन्धमारभमाणस्य | वानुत्कृष्टः, सोऽपि सादिः । तत्स्थानमप्राप्तस्यानादिः, ध्रुवाध्रुवौ प्राग्वत् । अप्रत्याख्यानावरणचतुष्टयस्याविरतसम्यग्दृष्टेरुत्कृष्टयोगस्थानवर्तिनः समयमेकं द्वौ वा समयावुत्कृष्टः प्रदेशबन्धः, योगस्थानोत्कर्षाद्वहुदलिकग्रहणान्मिथ्यात्वानन्तानुबन्धिलभ्यमानभागप्रवेशाच्च । तत उत्कृष्टात्प्रदेशबन्धाद् बन्धव्यवच्छेदस्थानाद्वा प्रतिपततो मन्दपरिणामस्यानुत्कृष्टः, स च सादिः, अप्राप्ततत्स्थानस्यानादिः, ध्रुवाध्रुवौ प्राग्वत् । प्रत्याख्यानावरणचतुष्टयस्य देशविरतस्योत्कृष्टयोगस्थानवृत्तेरेकं द्वौ वा समयावुत्कृष्टः प्रदेशबन्धः, योगोत्कर्षाबहुदलिकग्रहणान्मिथ्यात्वानन्तानुवन्ध्यप्रत्याख्यानलभ्यमानभागप्रवेशाच । स च प्रतिनियतकालभावित्वात्साद्यधुवः । तत उत्कृष्टप्रदे-19 | शबन्धाद् बन्धव्यवच्छेदस्थानाद्वा च्युतस्य मन्दयोगस्थानस्यानुत्कृष्टः, स च सादिः, अप्राप्त तत्स्थानस्यानादिः, ध्रुवाध्रुवौ पूर्ववत् । भय| जुगुप्सयोरपूर्वकरणस्योत्कृष्टयोगिन एकं द्वौ वा समयावुत्कृष्टः प्रदेशवन्धः, योगोत्कर्षेण बहुदलिकग्रहणान्मिथ्यात्वादिसजातीयाबध्य|मानप्रकृतिभागप्रवेशाच, सच साद्यध्रुवः, उत्कृष्टतोऽपि समययभावित्वात् । तत उत्कृष्टाद् बन्धव्यवच्छेदस्थानाद्वा प्रतिपततो मन्दपरिणामस्यानुत्कृष्टः, स च सादिः, अप्राप्ततत्स्थानस्यानादिः, धुवाध्रुवता प्राग्वत् । संज्वलनक्रोधस्यानिवृत्तिवादरसंपरायस्योत्कृष्टयोगस्य चतुर्विधवन्धकस्यैकं द्वौ वा समयावुत्कृष्टः प्रदेशबन्धः, योगोत्कर्षेण प्रभूतदलिकग्रहणान्मिथ्यात्वादीनां पुरुषवेदस्य च भाग प्रवेशाच्च, स च प्रतिनियतकालभावित्वात्साद्यधुवः। तथा तस्यैवोत्कृष्टयोगस्थानवर्तिनत्रिविधबन्धकस्यैकं द्वौ वा समयौ संज्वलनमानस्योत्कृष्टः प्रदेशबन्धः, संज्वलनक्रोधस्यापि भागप्रवेशात् । तस्यैवोत्कृष्टयोगस्य द्विविधवन्धकस्योत्कर्षतः समयद्वयं संज्वलनमायाया उत्कृष्टः प्रदेशबन्धः, संज्वलनमानस्यापि भागप्रवेशाद् । तस्यैवोत्कृष्टयोगस्यैकविधवन्धकस्योत्कर्षतः समयद्वयं संज्वलनलोभस्योत्कृष्टः