________________
कर्मप्रकृतिः
॥ ८१ ॥
SHA
| वर्त्तिनः प्रवर्त्तमानः सादिः, तत्स्थानमप्राप्तस्यानादिः, ध्रुवाभ्रुव वभव्यभव्यापेक्षयेति । एषामेव षण्णां कर्मणामुत्कृष्टजघन्याजघन्य विकल्पाः साद्यध्रुवाः । तत्रोत्कृष्टः साद्यध्रुवो भावित एव । जघन्यः सूक्ष्मनिंगोदस्यापर्याप्तस्योत्पत्तिसमये सर्वाल्पवीर्यस्य सप्तविधबन्धकस्य समयमेकं लभ्यते । ततो द्वितीयसमये तस्यैवाजघन्यः । ततो भूयोऽपि संख्येयकालेऽसंख्येयकाले वाऽतिक्रान्ते प्रागुक्तलक्षणसूक्ष्मनिगोदभावं प्राप्तस्याद्यसमये जघन्यः । तदनन्तरसमये त्वजघन्यः । एवमनेकधा संसारिणां जघन्येऽजघन्ये च परावर्त्तनात् द्वावप्येतौ साद्यध्रुवौ । आयुर्मोहनीययोश्च जघन्यादयश्चत्वारोऽपि साद्यध्रुवाः । तत्राध्रुवबन्धित्वादायुश्चतुर्णामपि भेदानां साद्यध्रुवता स्फुटा । मोहनीयस्य तुत्कृष्टः प्रदेशबन्धः सप्तविधबन्धकस्योत्कृष्ट योगस्थानवर्तिन एकं द्वौ वा समयौ भवति । ततोऽनुत्कृष्ट एवेति द्वावप्येतौ साद्यध्रुवौ । जघन्याजघन्ययोः साद्यध्रुवता तु ज्ञानावरणीयादिवद्भावनीया । उत्तरप्रकृतिषु ज्ञानावरणपञ्चकान्तरायपञ्चकनिद्राऽनाद्यद्वादशकषायभयजुगुप्सादर्शनावरणचतुष्टयप्रचलारूपाणां ध्रुवबन्धिनीनां त्रिंशत्प्रकृतीनामनुत्कृष्टः प्रदेशबन्ध चतुष्प्रकारः - सादिरनादिधु - | वोऽध्रुवश्चेति । तथाहि - ज्ञानावरणान्तरायपश्चकचक्षुरचक्षुरवधिकेवलदर्शनावरणरूपाणां चतुर्दशप्रकृतीनां सूक्ष्मसंपरायस्थस्योत्कृष्टयोगस्य समयमेकं द्वौ वा समयावुत्कृष्टः प्रदेशबन्धः प्राप्यते, योगोत्कर्षेण बहुदलिकग्रहणादायुर्मोहबन्धव्यवच्छेदेन तद्भागस्याधिकस्य प्रवेशाच्चतसृणां दर्शनावरणप्रकृतीनां सजातीयाबध्यमानप्रकृतिभागोपनमनाच्च । स च प्रतिनियतकालभावित्वात्साद्यध्रुवः । ततः समयान्तरे तस्यैव मन्दयोगस्थानवृत्तबन्धव्यवच्छेदं कृत्वा वा प्रतिपततोऽनुत्कृष्टः सादिः, तत्स्थानमप्राप्तस्यानादिः, धुवाधुवावभव्यभव्यापेक्षया । तथा निद्राप्रचलयोरविरतसम्यग्दृष्ट्यादेरपूर्वक रणान्तस्योत्कृष्टयोगस्थानवृत्तेः सप्तविधबन्धकस्योत्कृष्टः प्रदेशबन्ध एकं द्वौ वा समयौ, योगस्थानोत्कर्षेण भूयिष्ठदलिकग्रहणाद् स्त्यानर्द्धित्रिकलभ्यमानप्रकृतिभागप्रवेशादायुषा भागानादानाच्च । स च नियतकालभावित्वा
प्रदेशबन्धे
साद्यादिप्र
रूपणा.
॥ ८१ ॥