________________
स्तोकं जघन्यपदे देवनरकानुपूर्व्याः प्रदेशाग्रं, ततो मनुजानुपूर्व्या विशेषाधिकं ततोऽपि तिर्यगामुपूर्व्या विशेषाधिकम् । तथा सर्वस्तोकं त्रसनाम्नः, ततो विशेषाधिकं स्थावरनाम्नः । एवं बादरमुक्ष्मयोः, पर्याप्तापर्याप्तयोः, प्रत्येकसाधारणयोश्च ज्ञेयम् । शेषाणां तु नामप्रकृतीनां नास्त्यल्पबहुत्वम्, तथा सातासात वेदनीययोरु चै गोत्र नी चै गोत्रयोरपि । अन्तराये तु यथोत्कृष्टपदे तथैवाव गन्तव्यम् । इह यदा जन्तुरुत्कृष्टयोगस्थानवर्ती, यदा च मूलप्रकृतीनामुत्तरप्रकृतीनां च स्तोकतराणां बन्धकः, तथा यदा प्रकृत्यन्तरर्दालिकानामुत्कुष्टप्रदेश संक्रमः, तदोत्कृष्टप्रदेशाग्रसंभवः, उत्कृष्टयोगे वर्त्तमानत्वे उत्कृष्टप्रदेशग्रहणसंभवात्, स्तोकतरप्रकृतिबन्धकत्वे शेषाबध्यमानमकृतिलभ्यस्यापि भागस्य बध्यमानप्रकृतिष्वेवाभजनात्, प्रकृत्यन्तरदलिकानामुत्कृष्टपदेशसंक्रमकाले च विवक्षितासु बध्यमानासु प्रकृतिषु प्रभूतानां कर्मपुद्गलानां प्रवेशात्, एतद्विपर्यासे तु जघन्य प्रदेशाग्रसंभव इति ज्ञेयम् । नन्वयं प्रतिसमयं बध्यमानानां प्रतिसमयं विभागविधिरुक्तः, यदा तु तत्तगुणस्थाने स्वस्वबन्धोच्छेदः स्यात् तदा तद्भागद्रव्यं कस्या भागे समायातीति चेद् उच्यते तद्भागलभ्यं द्रव्यं यावदेकापि तत्सजातीयप्रकृतिर्बध्यते तावत्तस्या एव विभज्य देयम् । यदा तु तत्सजातीय सर्वप्रकृतिबन्धोच्छेदो यस्या वा मिध्यात्वप्रकृतेः सजातीया नापरा प्रकृतिरस्ति तदा तद्भागलभ्यं द्रव्यं सर्वं मूलप्रकृत्यन्तर्गतानां विजातीयप्रकृतीनां विभज्य दीयते, तासामप्युच्छेदे तद्दलिकमन्यस्या एवं मूलप्रकृतेः संपद्यते, एवं तावज्ज्ञेयं यावत्सूक्ष्मसंपराये गृहीतं दलिकं षभागी भवति, तदूर्ध्वं तु सर्वदलिकं सातस्योपतिष्ठत इति ।
अथ च साद्यादिप्ररूपणा स्वाम्यादिप्ररूपणा च कर्त्तव्या । तत्र मोहायुर्वर्जानां षण्णां मूलप्रकृतीनामनुत्कृष्टः प्रदेशबन्धः साद्यादितया चतुर्विधः । तथाहि-एतेषां षण्णां कर्मणां सूक्ष्मसंपरायस्थस्योत्कृष्टयोगे वर्त्तमानस्यैकं द्वौ वा समयायुत्कृष्टः प्रदेशबन्धो भवति । ततोsसौ सादिरध्रुवश्च । ततोऽन्यः सर्वोऽप्यनुत्कृष्टः । स चोत्कृष्टात् प्रदेशबन्धात् पततो बन्धव्यवच्छेदं कृत्वा वा पततो मन्दयोगस्थान
raakas