SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ शेषवर्णापेक्षया कृष्णवर्णनाम्न इव सजातीयप्रकृत्यपेक्षं चिन्त्यते, न चैताः परस्परं सजातीयाः, अभिन्नैकमूलपिण्डप्रकृत्यभावात् , नापि कर्मप्रकृतिः विरुद्धाः, युगपदपि बन्धभावात , ततोऽत्रानधिकृता इति । तथोत्कृष्टपदे प्रदेशाग्रं सर्वस्तो नीचैर्गोत्रस्य, ततो विशेषाधिकमुच्चैर्गोत्रस्य । प्रदेशबन्ध दलिकाना॥८०॥ तथाऽन्तराये सर्वस्तोकं दानान्तरायस्य, ततो लाभान्तरायस्य विशेषाधिकं, ततो भोगान्तरायस्य, तत उपभोगान्तरायस्य, ततश्च वीर्या-15 मल्पबहुन्तरायस्य विशेषाधिकम् । उक्तमुत्तरप्रकृतीनामुत्कृष्टप्रदेशाग्राल्पबहुत्वम् । अथ जघन्यपदे तदभिधीयते-तत्र ज्ञानावरणदर्शनावरणप्रकृतीनां ]Y त्वम्। यथोत्कृष्टपदे तथैवावगन्तव्यम् । मोहनीये सर्वस्तोकं जघन्यपदे प्रदेशाग्रमप्रत्याख्यानमानस्य, ततोऽप्रत्याख्यानक्रोधस्य विशेषाधिकं, ७ ER. ततोऽप्रत्याख्यानमायाया विशेषाधिकं, ततोऽप्यप्रत्याख्यानलोभस्य विशेषाधिकं, ततः प्रत्याख्यानावरगानन्तानुबन्धिमानक्रोधमायालो-१५ भानां यथोत्तरमुक्तरीत्येव विशेषाधिकं वाच्यं, ततो मिथ्यात्वस्य विशेषाधिक, ततो जुगुप्साया अनन्तगुणं, ततो भयस्य विशेषाधिकं, ततो हास्यशोकयोर्विशेषाधिकं, स्वस्थाने तु मिथो द्वयोस्तुल्यं, ततो रत्यरत्योर्विशेषाधिकं, स्वस्थाने तु तयोः परस्परं तुल्यं, ततोऽन्यत५ मवेदस्य विशेषाधिकं,ततः संज्वलनानां चतुर्णा यथोत्तरं विशेषाधिकम् । तथाऽऽयुषि सर्वस्तोकं जघन्यपदे प्रदेशाग्रं तिर्यङ्मनुष्यायुषोः, | ततो देवनारकायुषोरसङ्घयेयगुणम् । तथा नाम्नि गतौ सर्वस्तो जघन्यपदे प्रदेशाग्रं तिर्यग्गतः, ततो विशेषाधिकं मनुजगतेः, ततो | देवगतेरसङ्खथेयगुणं ततो निरयगतेरसंख्येयगुणम् । तथा जातौ सर्वस्तोकं चतुर्णा द्वीन्द्रियादिजातिनाम्नां, तत एकेन्द्रियजातेविशे-1 पाधिकम् । तथा शरीरनाम्नि सर्वस्तोकमौदारिकशरीरनाम्नः प्रदेशाग्रं, ततस्तैजसस्य विशेषाधिकं, ततः कार्मणस्य विशेषाधिकं, ततो | | वैक्रियशरीरनाम्नोऽसङ्खयेयगुणं,ततोऽप्याहारकशरीरनाम्नोऽसंख्येयगुणम् । एवं सङ्घातनाम्न्यपि वाच्यम् । अङ्गोपाङ्गनाम्नि सर्वस्तोकं जघ- 1 न्यपदे प्रदेशाग्रमौदारिकाङ्गोपाङ्गनाम्नः,ततो वैक्रियाङ्गोपाङ्गनाम्नोऽसंख्येयगुणं,ततोऽप्याहारकाङ्गोपाङ्गनाम्नोऽसंख्येयगुणम् । तथा सर्व DESCAC CRECEICC ॥८०॥ S
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy