SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ | परस्परं तुल्यं, ततः समचतुरस्रस्य विशेषाधिकं, ततोपि हुण्डस्य विशेषाधिकम् । तथाङ्गोपाङ्गनाम्नि सर्वस्तोकमुत्कृष्टपदे प्रदेशाग्रमा| हारकाङ्गोपाङ्गनाम्नः, ततो वैक्रियाङ्गोपाङ्गनाम्नो विशेषाधिक, ततोऽप्यौदारिकाङ्गोपाङ्गनाम्नो विशेषाधिकम् । तथा संहनननाम्नि सर्वस्तोकमाद्यानां पञ्चानां संहननानामुत्कृष्टपदे प्रदेशाग्रं, स्वस्थाने तु तेषां परस्परं तुल्यं, ततः सेवातसंहननस्य विशेषाधिकम् । तथा वर्णनाम्नि सर्वस्तोकमुत्कृष्टपदे प्रदेशाधे कृष्णवर्णनाम्नः, ततो नीलवर्णनाम्नो विशेषाधिकं, ततो लोहितवर्णनाम्नः, ततो हारिद्रवर्णनाम्नः, | ततश्च श्वेतवर्णनाम्नो विशेषाधिकं । तथा गन्धनाम्नि सर्वस्तोकं सुरभिगन्धनाम्नः, ततो दुरभिगन्धनाम्नो विशेषाधिकम् । तथा रसनाम्नि | सर्वस्तोकं कटुरसनाम्नः, ततस्तिक्तरसनाम्नो विशेषाधिकं,ततः कषायरसनाम्नः,ततोऽम्लरसनाम्नः, ततश्च मधुररसनाम्नो विशेषाधिकम् । तथा स्पर्शनाम्नि सर्वस्तोकं उत्कृष्टपदे कर्कशगुरुस्पर्शनाम्नोः प्रदेशाग्रं, स्वस्थाने तु मिथो द्वयोरपि तुल्यं, ततो मृदुलघुस्पर्शनाम्नोविशेषाधिकं, स्वस्थाने तु मिथो द्वयोरपि तुल्यं, ततो रूक्षशीतस्पर्शनाम्नोविशेषाधिकं, स्वस्थाने तु मिथो द्वयोरपि तुल्यं, ततः स्निग्धोष्णस्पर्शनाम्नोर्विशेषाधिकं, स्वस्थाने तु मिथो द्वयोरपि तुल्यम् । तथाऽऽनुपूर्वीनाम्नि सर्वस्तोकमुत्कृष्टपदे प्रदेशाग्रं देवगतिनरकगत्यानुपूर्योः, स्वस्थाने तु मिथो द्वयोरपि तुल्यं, ततो मनुजगत्यानुपूर्व्या विशेषाधिकं, ततस्तिर्यगानुपूर्व्या विशेषाधिकम् । तथा सर्वस्तोकमुत्कृष्टपदे प्रदेशाग्रं त्रसनाम्नः, ततो विशेषाधिकं स्थावरनाम्नः । तथा सर्वस्तोकं प्रदेशाग्रं पर्याप्तनाम्नः, ततो विशेषाधिकमपर्याप्तना|म्नः । एवं स्थिर स्थिरयोः, शुभाशुभयोः,सुभगदुर्भगयोः,आदेयानादेययोः,सूक्ष्मबादरयोः,प्रत्येकसाधारणयोर्वाच्यम् । तथा सर्वस्तोकमयश-कीर्तिनाम्नः प्रदेशाग्रमुत्कृष्टपदे,ततो यश-कीर्तिनाम्नः संख्येयगुणम्। शेषाणामातपोद्योतप्रशस्ताप्रशस्तविहायोगतिसुखरदुःस्वराणां परस्परं तुल्यमुत्कृष्टपदे प्रदेशाग्रम् । निर्माणोच्छ्वासपराघातोपघातागुरुलघुतीर्थकरनामप्रकृतीनां त्वल्पबहुत्वं नास्ति । यत इदमल्पबहुत्वं SECCANDIDROICE
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy