SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ कर्मप्रकृतिः ॥७९॥ त्याख्यानावरणमायायाः, ततोऽप्रत्याख्यानावरणलोभस्य, ततः प्रत्याख्यानावरणमानस्य, ततः प्रत्याख्यानावरणक्रोधस्य, ततः प्रत्याख्यानावरणमायायाः, ततःप्रत्याख्यानावरणलोभस्य, ततोऽनन्तानुबन्धिमानस्य, सतोऽनन्तानुबन्धिक्रोधस्य, ततोऽनन्तानुबन्धिमायायाः, त प्रदेशबन्धे तोऽनन्तानुबन्धिलोभस्य, ततश्च मिथ्यात्वस्य विशेषाधिक, ततो जुगुप्साया अनन्तगुणं, ततो भयस्य विशेषाधिकं, ततो हास्यशोकयोर्वि दलिकाना | मल्पबहुशेषाधिकं, स्वस्थाने तु द्वयोरपि परस्परं तुल्यं, ततो रत्यरत्योर्विशेषाधिकं,स्वस्थाने तु तयोस्तुल्यं, ततः स्त्रीवेदनपुंसकवेदयोर्विशेषाधिकं, त्वम्। | स्वस्थाने तु दयोस्तुल्यं, ततः संज्वलनक्रोधस्य विशेषाधिकं, ततः संज्वलनमानस्य, ततः पुरुषवेदस्य, ततः संज्वलनमायाया विशेषाधिकं, ततः संज्वलनलोभस्यासङ्खयेयगुणम् । तथा चतुर्णामप्यायुषामुत्कृष्टं प्रदेशाग्रं परस्परं तुल्यम् । नामकर्मण्युत्कृष्टपदे प्रदेशाग्रं गतौ देवगतिन-१७ रकगत्योः सर्वस्तोकं, ततो मनुजगतौ विशेषाधिकं, ततस्तिर्यग्गतौ विशेषाधिकम् । तथा जातौ चतसृणां द्वीन्द्रियादिजातीनामुत्कृष्टपदे | प्रदेशाग्रं सर्वस्तोकं, स्वस्थाने तु तासां परस्परं तुल्यं, तत एकेन्द्रियजातेविशेषाधिकं । तथा शरीरनाम्नि सर्वस्तोकमुत्कृष्टपदे प्रदेशाग्र| माहारकस्य, ततो वैक्रियस्य विशेषाधिकं, तत औदारिकस्य, ततस्तैजसस्य, ततोऽपि कार्मणनाम्नो विशेषाधिकम् । एवं संघातना म्न्यपि द्रष्टव्यम् । तथा बन्धननाम्नि सर्वस्तोकमुत्कृष्टपदे प्रदेशाग्रमाहारकाहारकबन्धननाम्नः,तत आहारकतैजसबन्धनस्य विशेषाधिकं, | ततोऽप्याहारककार्मणबन्धनस्य, तत आहारकतैजसकार्मणबन्धनस्य, ततो वैक्रियवैक्रियशरीरबन्धनस्य, ततो वैक्रियतैजसबन्धनस्य, | ततो वैक्रियकार्मणबन्धनस्य, ततो वैक्रियतैजसकार्मणवन्धनस्य, तत औदारिकौदारिकबन्धननाम्नः, तत औदारिकतैजसबन्धनस्य, तत औदारिककार्मणबन्धनस्य, ततोऽप्यौदारिकतैजसकार्मणबन्धनस्य, ततस्तैजसतैजसबन्धनस्य, ततस्तैजसकार्मणबन्धनस्य, ततः ॥७९॥ कार्मणकार्मणबन्धनस्य विशेषाधिकम् । तथा संस्थाननाम्नि संस्थानानां मध्यमानां चतुर्णामुत्कृष्टपदे प्रदेशाग्रं सर्वस्तोकं, स्वस्थाने तु तेषां DISEDDIN
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy