SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ वसायगृहीतस्य कर्मदलिकस्य परमाणवो विभज्य मूलप्रकृतिभ्य उत्तरप्रकृतिभ्यश्च दत्ताः, तत्र जघन्यत उत्कर्षतो वा कस्याः प्रकृतेः कि-16 | यान् भाग इति विशेषजिज्ञासायामाह-आसां मूलप्रकृतीनामुत्तरस्वप्रकृतीनां च परस्परं भागस्य विशेषोऽल्पबहुत्वाच्छास्त्रान्तरोक्तादवसेयः। तत्र मूलप्रकृतीनामिदमल्पबहुत्वम् । कर्मणां हि स्थित्यनुसारतो भाग आभजति, यस्य महती स्थितिस्तस्य महान् भागो यस्य स्तोका | | तस्य स्तोक इति । तत आयुषो भागः सर्वस्तोकः, तस्योत्कर्षतोऽपि त्रयस्त्रिंशत्सागरोपमप्रमाणत्वेनान्येभ्यः स्तोकस्थितिकत्वात् । ततो नामगोत्रयोर्भागो बृहत्तरः, तयोः स्थितेविंशतिसागरोपमकोटाकोटिप्रमाणत्वात् , स्वस्थाने तु मिथस्तुल्यः, तुल्यस्थितिकत्वात् । ततो|ऽपि ज्ञानावरणदर्शनावरणान्तरायाणां बृहत्तमः, तेषां स्थितेस्त्रिंशत्सागरोपमकोटाकोटिप्रमाणत्वात् , स्वस्थाने तु परस्परं तुल्य एव, तुल्यस्थितिकत्वात् । ततोऽपि मोहनीयस्य बृहत्तमः, तस्य स्थितेः सप्ततिसागरोपमकोटाकोटीप्रमाणत्वात् । वेदनीयस्य तु ज्ञानावरणादिभिः समानस्थितिकस्यापि सर्वेभ्य उत्कृष्ट एव भागोऽन्यथा स्पष्टतरस्वफलसुखदुःखोपदर्शकत्वानुपपत्तेः । उक्तं मूलप्रकृतीनामल्पबहुत्वम् । अथ स्वस्वोत्तरप्रकृतीनां जघन्यत उत्कर्षतश्च तदभिधीयते-तत्रोत्कृष्टपदे सर्वस्तोकं केवलज्ञानावरणस्य प्रदेशाग्रं, ततो मनःपर्यायज्ञानावरणस्यानन्तगुणं, ततोऽवधिज्ञानावरणस्य विशेषाधिकं,ततः श्रुतज्ञानावरणस्य विशेषाधिक,ततो मतिज्ञानावरणस्य विशेषाधिकम् । तथा दर्शनावरणीये उत्कृष्टपदे सर्वस्तोकं प्रचलायाः प्रदेशाग्रं, ततो निद्राया विशेषाधिकं, ततोऽपि प्रचलाप्रचलाया विशेषाधिकं, ततोऽपि निद्रानिद्राया विशेषाधिकं,ततः स्त्यान विशेषाधिक,ततः केवलदर्शनावरणस्य विशेषाधिकं, ततोऽवधिदर्शनावरणस्यानन्तगुणं, ततोऽचक्षुर्दर्शनावरणस्य विशेषाधिकं,ततोऽपि चक्षुर्दर्शनावरणस्य विशेषाधिकम् । तथा सर्वस्तोकमुत्कृष्टपदे प्रदेशाग्रमसातवेदनीयस्य, ततो विशेषाधिक 3 | सातवेदनीयस्य । तथा मोहे सर्वस्तोकमुत्कृष्टपदे प्रदेशाग्रमप्रत्याख्यानावरणमानस्य, ततोऽप्रत्याख्यानावरणक्रोधस्य विशेषाधिकं, ततोऽन
SR No.600347
Book TitleKarm Prakruti
Original Sutra AuthorN/A
AuthorShivsharmsuri, Chirantanacharya, Malaygirisuri, Yashovijay Gani
PublisherJin Gun Aradhak Trust
Publication Year2016
Total Pages1490
LanguageSanskrit
ClassificationManuscript
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy