________________
कर्मप्रकृतिः
11190 11
| क्षुरवधिदर्शनावरणेभ्यो दीयन्ते । अन्तरायस्य पुनर्यो मूलभाग आभजति स समग्रोऽपि सर्वघात्यवान्तर भेदाभावात् पञ्चधा कृत्वा दानान्तरायादिभ्यो दीयते ॥ २५ ॥
(उ०)—उक्तः प्रकृतिबन्धः, अथ प्रदेशबन्धोऽवसरप्राप्तः । तत्राष्टविधबन्धकेन चित्रतागर्भाध्यवसायेन गृहीतं यद्दलिकं तस्याष्टौ भागा भवन्ति, सप्तविधबन्धकस्य तु सप्तभागाः, षड्विधबन्धकस्य तु षद्भागाः, एकविधबन्धकस्य चैक एवेत्येष मूलप्रकृतिभागविभागः । अथोत्तरप्रकृतीनां भागविभागमुपदिदर्शयिषुराह – यत्कर्मदलिकं सर्वघातिप्राप्तं केवलज्ञानावरणादि सर्वघातिप्रकृतिगतं तत्स्वकर्मप्रदेशानामनन्ततमो भागः - स्वकीयज्ञानावरणादिरूपाया मूलप्रकृतेर्यो मौलो भागस्तस्यानन्ततमो भाग इत्यर्थः । कुत इति चेत् ? स्वस्वमूलप्रकृतिपरमाणुषु स्निग्धतराणां परमाणूनामनन्ततमभागमात्रत्वात् तेषामेव च सर्वघातिप्रकृतियोग्यत्वात् । तस्मिँश्चानन्ततमे भागेऽपसारिते यच्छेषं दलिकं तत्सर्वघातिप्रकृतिव्यतिरिक्तेभ्यस्तत्कालबध्यमानेभ्यः स्वस्वमूलप्रकृत्यवान्तरभेदेभ्यो विभज्य दीयते । तथा चाहआवरणयोर्ज्ञानावरणदर्शनावर गयोः प्रत्येकं सर्वघातिमकृत्यर्हेऽनन्ततमे भागेऽपसारिते शेषस्य दलिकस्य यथाक्रमं चतुर्धा त्रिधा च भागः | क्रियते, कृत्वा च शेषदेशघातिप्रकृतिभ्यो दीयते । ज्ञानावरणमूलप्रकृतावाभजतो भागस्यानन्ततमे केवलज्ञानावरणाय दत्ते दर्शनावरणमूलप्रकृतावाभजतश्व भागस्यानन्ततमे भागे षोढा कृत्वा निद्रापञ्चककेवलदर्शनावरणाभ्यां दत्ते प्रत्येकं चतुर्णां त्रयाणामेव देशघातिभेदानां भागदानस्य शिष्यमाणत्वात् । अथ विघ्ने - अन्तराये यो मूलभाग आभजति स समग्रोऽपि पञ्चधा कृत्वा दानान्तरायादिभ्यो दीयते, तत्र सर्वघात्यवान्तरभेदाभावात् ॥ २५॥
मोहे दुहा चउद्धा य पंचहा वावि बज्झमाणीणं । वेयणिआउयगोएसु बज्झमाणीण भागो सिं ॥ २६ ॥
प्रदेशबन्धेविभागमरूपणा.
11190 ||