________________
उण्हं । दसणावरणीयस्स ज भागलद्धं तस्स अणंतिमो भागो णिहापणग(केवल)दसणावरणीयाण छन्भागा भवंति, सेसं तिहा कीरति चक्खुदंसणअचक्खुदंसणओहिदसणावरणीयाणं । 'अह पंचहा विग्य'त्ति-जं अंतराइयस्स भागलद्धं दलियं तं सव्वघातिअभावातो पंचभागो कीरति दानांतरादीण पंचण्हं ॥२५॥ ___ (मलय०)-मम्प्रत्युत्तरप्रकृतीनां भागविभागोपदर्शनार्थमाह-जति !-यत कर्मदलिकं सर्वघातिप्राप्तं केवलज्ञानावरणीयादिरूपसर्व
घातिप्रकृतिषु गतं तत् स्वकर्मप्रदेशानामनन्ततमो भागः, स्वकीयाया ज्ञानावरणादिरूपाया मूलप्रकृतेर्यो मौलो भागस्तस्यानन्ततमो भाग | इत्यर्थः । काऽत्र युक्तिरिति चेद् ,उच्यते इहाष्टानामपि मूलप्रकृतीनां प्रत्येकं ये स्निग्धतराः परमाणवस्ते स्तोकाः । ते च स्वस्वमूलप्रकृतिपर- | माणू नामनन्ततमो भागः । त एव च सर्वघातिप्रकृतियोग्या इति यत्सर्वघातिप्राप्तं तत् स्वमूलप्रकृतिप्रदेशानामनन्ततमो भागः । तस्मि-2 श्वानन्ततमे भागेऽपसारिते शेषं यद्दलिकं तत्सर्वघातिप्रकृतिव्यतिरिक्तेभ्यः तत्कालबध्यमानेभ्यः स्वस्वमूलप्रकृत्यवान्तरभेदेभ्यो विभज्य | विभज्य दीयते । तथा चाह-'आवरण' इत्यादि । 'आवरणयोः' ज्ञानावरणदर्शनावरणयोः प्रत्येकं मूलभागस्य सर्वघातिप्रकृतिनिमित्ते. ऽनन्ततमे भागेऽपसारिते सति शेषस्य दलिकस्य यथाक्रमं चतुर्धा त्रिधा च विभागः क्रियते, कृत्वा च शेषदेशघातिप्रकृतिभ्यो दीयते । तथा 'विघ्ने'-अन्तराये यो मूलभागः स समग्रोऽपि पञ्चधा कृत्वा दानान्तरायादिभ्यो दीयते । इयमत्र भावना-ज्ञानावरणीयस्य स्थित्यनुसारेण यो मूलभाग आभजति, तस्यानन्ततमो भागः केवलज्ञानावरणाय दीयते, शेषस्य चत्वारो भागाः क्रियन्ते, ते च मतिज्ञा| नावरणश्रुतज्ञानावरणावधिज्ञानावरणमनःपर्यवज्ञानावरणेभ्यो दीयन्ते । दर्शनावरणीयस्यापि यो मूलभाग आभजति तस्यानन्ततमं भागं पोढा कृत्वा निद्रापश्चककेवलदर्शनावरणाभ्यां सर्वघातिभ्यां प्रयच्छति, शेषस्य च त्रयो भागाः क्रियन्ते, ते च चक्षुरच
।